________________ प्राप्तिनिश्चयः सर्वेषु स्थानान्तरेषु सकृत्सकृदुपपद्यमानो यावदकनिष्ठान्प्रविश्य [T. 109 B] परिनिर्वाति / (b) भवाग्रगश्चतुर्थस्य ध्यानस्याव्यवकीर्णभावित्वात् केवलं शुद्धावासान् परिहत्य तथैव यावद्भवाग्रं गत्वा परिनिर्वाति / व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य मृद्वादिपञ्चप्रकारभावितत्वा[As. p. 91]द्ययाक्रमं पञ्चसु शुद्धावासेषुपपत्तिर्वेदितव्या। (xxii) चेतयित्वाऽचेतयित्वेति स्वयमात्मानमुपक्रममाणोऽनु[प] क्रममाणो वेत्यर्थः। दृष्टघर्मसुखविहारात्परिहाणमेति लौकिकेभ्यो ध्यानेभ्य इत्यर्थः / (xxv) इन्द्रि [Ms. 113 B]योत्तापनं पुनरधिमात्रतानयनं तीक्ष्णकरणमित्यर्थः। अत एवाकोप्यधर्मा भव्यश्चेन्द्रियाण्युत्तापयितुमिति नोक्तम्, प्रकृत्या तीक्ष्णेन्द्रियत्वात् // 6146 [Ch.. 756A] कामावंचररूपावचर एव बोधिसत्त्वो नारूप्यावचरः, प्रभावप्राप्तस्य सत्त्वपरिपाचनानायतनतामुपादाय तत्रानुपपत्तितः / प्रारूप्यधातुव्यवषितेन ध्यानेनेति पर्युदस्तारूप्योपपत्तिकेन समाधिनेत्यर्थः / ध्यानसुखविहर त्यपरिहीण एव ध्यानेभ्यः, ध्यानव्यावर्तनकुशलत्वात् सत्त्वपरिपाचनार्थं कामधातावपि बोधिसत्त्व उपपद्यत इति वेदितव्यम् / / [As. p. 92] सर्वां बोधिसत्त्वचर्यामिति तुषितभवनवासमुपादाय [T. 110A] यावन्मारपराजयम् / बुद्ध चर्या च दर्शयतो त्यभिसंबोधिमुपादाय यावन्महापरिनिर्वाणम् // 6147 (i) अधिमुक्तिचारी बोधिसत्त्वगोत्रे व्यवस्थित आदितो महाबोधिप्रस्थानमुपादाय यावत्प्रमुदितां भूमिं न प्रविशति, प्रत्यात्म लोकोत्तराभिगमाभावात् / (ii) अध्याशयचारी दशसु भूमिषु, लोकोत्तरेणाधिगमेन विशुद्धाशयत्वात् / (iii) निमि]Ms. 114A]त्तचारी [Ch. 756B] षट्सु भूमिषु, अनिच्छतोऽपि निमित्तव्यवकिरणात्। (iv) अनिमित्तचारी सप्तम्याम्, यत्नं कुर्वतो यावदिच्छं निमित्तासमुदाचारात् / (v) अनभिसंस्कारचारी शेषासु भूमिसु, वैपाकिकनिर्विकल्पज्ञानप्रतिलम्भादिति // $148. सकृन्नर्याणिकः सकृत्त्रधातुकावचरान्क्लेशान् प्रजहाति / प्रकारश इत्यधिमात्राधिमात्रान्कामरूपारूप्यावचरान्भावनाप्रहातव्याननुशयान् प्रजहाति, एवं यावन मदमदन दर्शनप्रहातव्यान न त लौकिकमार्गवद्धमिप्रकारभेदेन पृथकपृथगित्यर्थः / तत्रेदं ज्ञापकं यथोक्तमंगुल्यग्रसूत्रे-“यत्किचिद्रूपं यावद्विज्ञानमतीतानागतप्रत्युत्पन्नमिति विस्तरेण यावद्दूरे यद्वाऽन्तिके [T. 110B] तत्सर्वमेकंध्यमसंक्षि 1. Ms. विरह° for विहर. 2. T. omits ध्यानेभ्य:. 3. T. & Ch. lack दर्शयति. 4. T. reads बोधिसत्त्व : गोत्र. / 5. Ms. यावद्विहि for यावद.