SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 114 अभिधर्मसमुच्चयभाष्यम् श्चार्याणिकदृष्टिः, अनुपायप्रयुक्तस्य तत्फलानवाप्तेः। (xxi) अनवद्यतादृष्टिनिःसरण[T. 103 B]दृष्टिश्चावरणोपचयदृष्टिः, मिथ्याप्रतिपद्यमानस्यावरणक्षयासंभवात् / (xxii) अवज्ञादृष्टि: प्रकोपदृष्टिश्चापुण्यप्रसवदृष्टिः, सद्धर्मसब्रह्मचारिविप्रतिपत्तिमुखेन महाक्षतिसमासादनात् / (xxiii) विपरीतष्टि: प्रसवदष्टिश्च वैफल्यदृष्टिः, [अ] सम्यग्धर्मताव्यवस्थापनग्रहणग्राहणविशेषा'नधिगमात् / (xxiv) अनभ्युपगमदृष्टिः कुसतिदृष्टिश्च निग्राह्यदृष्टिः, [अन्यायेन वादं कुर्वतो जयासंभवात् / (xxv) सत्कारदृष्टिरभ्याख्यानदृष्टिः, अतदाख्यायिनि तत्समारोपणात् / (xxvi) दृढमूढ तादृष्टिरकथ्यदृष्टिः, मिथ्याभिनिवेशिना सह सां' [Ms. 107 A]कथ्यप्रतिषेधानिरर्थकतामुपादाय / (xxvii) मूलदृष्टिर्महादृष्टिः, तत प्रायत्यां पुष्टतरसर्वदृष्टिगतप्रतापनात् / (xxviii) सर्वा एताः सप्त*. विशतिदृष्टयोऽभिमानदृष्टिः, अभूताभिमानसमुत्थितत्वात् / अत एवानन्तरं तत्रैव सूत्र उक्तमितीमाः सप्तदश समानाः दश भवन्ति, दश समाना: सप्तदश भवन्ति, सप्तविंशतिः समाना एका भवति, एका समाना सप्तविंशतिर्भवन्तीति / / 5 1336 निःस्वभावाः सर्वधर्माः यस्मात्स्वयमेषां भावो नास्ति, प्रत्ययांस्त्वपेक्ष्य भावो [T. 104 A] न. प्रतिषिध्यते। येन वा स्वभावेनैते पूर्व[Ch. 752 A]मभूवन्न तेन स्वेन भावेन भूयः शक्यमे भिर्भवितुमिति निःस्वभावाः / प्राप्ताभ्रष्टलक्षणानामपि प्रत्युत्पन्नानां स्वे भावेऽवस्थानाभावानिःस्वभावाः / यादशो वाऽदृष्टसत्यधर्माणां स्वभावो लक्षणमभिलापप्रपञ्चवासनामुखेन गृह्यते तेन वालग्राहानुरूपेण स्वभावेन वि[र] हितत्वानि:स्वभावा: / / अपि खलु सर्वधर्मा उच्यन्ते त्रयः स्वभावाः। तत्र परिकल्पितस्य स्वलक्ष[Ms. 107 B]णमेव नास्त्यतः स्वलक्षणनिःस्वभावतया नि:स्वभावः / परतन्त्रस्य स्वयमुत्पत्तिर्नास्ति प्रत्ययापेक्षणादतो नास्य स्वेन भावेन भाव इत्युत्पत्तिनिःस्वभावतया निःस्वभावः / परिनिष्पन्नो विशुद्ध्यालंबनत्वात् परतन्त्रपरिकल्पितलक्षणाभावस्वभावत्वाच्च परमार्थश्चैष निःस्वभावताप्रभावितश्चेति परमार्थनि:स्वभावतया निःस्वभावः / इत्येवं च कृत्वा निःस्वभावाः सर्वधर्मा द्रष्टव्याः, न तु सर्वथालक्षणाभावमधिकृत्येति / / 5 134. अपि खलु महायाने तथागतस्य सर्वेऽभिप्रायाः संक्षेपेण चत्वारो भवन्ति / तद्यथा (i) समताभिप्रायो यदाह - अहमेव तस्मिन् समये विपश्यी 1. Ch. adds फल. 2. Ms. ल. 3. Ms. सा. Ms. appears as raftaareatato 5. T. chapter VIII. 6. Ms. ख्ये, 4. M.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy