________________ धर्मविनिश्चयः सम्यक्संबुद्धोऽभूवमिति, अ[f]वशिष्टधर्मकायत्वात् / (ii) कालान्तराभिप्रायो [T. 104 B] यदाह - ये सुखावत्यां लोकधाती प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति, विमलचन्द्रप्रभवस्य' च नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां [Ch. 752B] सम्यक्संबोधाविति, कालान्तरेणेत्यभिप्रायः / (iii) अर्थान्तराभिप्रायो यदाह - निःस्वभावाः सर्वधर्मा [Ms. 108 A] अनुत्पन्ना इत्येवमादि, अयथारुतार्थत्वात् / (iv)पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्र शंसन्ति कस्यचिद्विगर्ह तेऽल्पमात्रसंतृष्टस्य / तथा रागचरितस्य बुद्धक्षेत्रविभूति दर्शयति, मानचरितस्य केषांचिदेव बुद्धानामधिकां संपत्ति वर्णयन्ति / कोकृत्येनावृतस्य ये बुद्धबोधिसत्त्वेष्वपकारमपि करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीत्याह / अनियतगोत्रस्य महाश्रावका[न् ] बुद्धत्वे व्याकरोति, एकं च यानं न द्वितीयमस्तीति देशयति श्रावकत्वाशयत्याजनार्थम् / / 6135 [As. p. 85] पुनः सर्वेऽभिसंधयोऽभिसमस्य चत्वारो भवन्त्यवतारणाभिसंध्यादयः। तत्र (i) अवतारणाभिसंधिः श्रावकेषु द्रष्टव्यः, शासनावतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात् / (ii) लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यः, [T. 105 A] निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् / (iii) प्रतिपक्षाभिसंधिः दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षताग्रयानसंभाषा / अष्टावरणानि बुद्धधर्मावज्ञेति विस्तरः / त[Ms. 108 B]दुदाहरणानि च यथायोगं चतुरभिप्रायनिर्देशानि द्रष्टव्यानि / (iv) परिणामनाभिसंधिरभिधान- . गाम्भीर्ये द्रष्टव्यः, यदाह असारे सारम[त]यो विपर्यासे च सुस्थिताः / . क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमाम् / / इति / अत्रायमभिसंधिः- अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिः, विक्षेपो हि विसारश्चेतसः विपर्यासे च सुस्थिताः इति नित्यसुखशुच्यात्मविपर्ययेणानित्यादिके विपर्यासे च सुस्थिता अपरिहाणितः क्लेशेन च सुसंक्लिष्टाः' इति दीर्घदुष्करव्यायामश्रमेणात्यर्थं परिक्लिष्टाः / / 6136 [Ch. 752 C] वैपुल्ये धर्मसमाधिकुशलबोधिसत्त्वनिर्देशः शमथानुशंसं विपश्यनानुशंसं तदुभयानुशंसं चाधिकृत्य वेदितव्यः / तत्र (i) शमथानुशंसो द्विविधः। (a) क्षणे क्षणे प्रकर्षगामिन्या प्रस्रब्ध्या निरन्तरमाश्रयस्फरणात् प्रतिक्षणं सर्वदौष्ठुल्याश्रय[T. 105 B]द्रावणम्, (b) अविशेषेण सर्वदेशनाधर्मकरसताधिमोक्षसमाधानाद्विविधस्कन्धाद्यर्थाकारसंज्ञाविगतायाः सूत्रादि[Ms. 109 1. T. & Ch, add तथागतस्य, 2. Ms. adds &. 3. Ms. हि. 4. Ms. adds दे. . 5. Ch. adds explanation of “लभन्ते बोधिमुत्तमाम."