________________ धर्मविनिश्चयः तथता। तदपवादाकारास्तिस्रो दृष्टयो भवन्ति-प्रज्ञप्त्यपवाददृष्टिः परिक[Ms. 105 B]ल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च / (v, vi) त एवं सर्वथा सर्वधर्मानपवदमा'नास्तस्या अपवाददष्टे: प्रतिष्ठाप[T. 102 B]नाथं कांचिदेव युक्ति परिगृह्णन्ति, येऽपि नीतार्थाः सूत्रान्ता निरभिलापधर्मताद्योतकास्तानपि सर्वान् स्वदृष्टयानुलोम्येन परिणामयन्ति / ते एव द्वे दृष्टी भवतः परिग्रहदृष्टिः परिणतिदृष्टिश्च / (vii, viii) ते पुनरेवंदृष्टयो भवन्ति - य एतामीदृशीं' दृष्टि निश्रित्य कुशलमकुशलं वा समाचरति स निरवद्य एव भवति निर्दोषः सर्वमेवास्य तत्कल्याणतां याति, पूर्वोपचिताच्चावरणात्स निःसरतीत्येवमेषां द्वे दृष्टी अनवद्यतादृष्टिनिःसरणदृष्टिश्च / (ix,x) ते चैवं स्वदृष्टावभिनिविष्टास्तद्दृष्टिविपर्ययेण स्कन्धादिधर्मव्यवस्थापकं श्रावकपिटकमवजानन्ति, ये च तामपवाददृष्टिमनधिमुक्ताः श्रावकया नीयास्तान् प्रद्विषन्ति / ते एते द्वे दृष्टी भवतोऽवज्ञादृष्टि: प्रकोपदृष्टिश्च / (xi, xii) स्वष्ट्यनुसारेण चैते यथावच्छून्यतानिमित्ताप्रणिहितानि व्यवस्थापयमाना अत[Ms. 106 A]ल्लक्षणे तल्लक्षणसंज्ञिनो विपरीतमेषां लक्षणं व्यवस्थापयन्ति, एवंचित्ताश्च भवन्ति-यस्यामीदश्यां धर्मतायामवतरन्त्यवतारयन्ति वा सर्वे तेऽप्रमेयं पुण्यं प्रसवन्तीत्येवमेते दृष्टी विपरीतदृष्टि: प्रसवदष्टिश्च / (xiii, xiv) यदा पुनस्ते तां दृष्टिमारभ्य परेरनुयुज्यन्ते तदा न किचित्स्वयमिच्छन्त्यभ्युपगन्तुम्, [T. 103 A] छलजातिभ्यां च पराननुयुञ्जन्ते / ते एते अनभ्युपगमदृष्टिः कुसतिदृष्टिश्च / (xv) ते चैवमभिमानिनो भवन्ति ---य एवं प्रतिपद्यन्ते [ते] सम्यग्बुद्धान् भगवतः पूजयन्ति सत्कुर्वन्तीत्येषां सत्कारदष्टि: / (xvi) अविपरीतधर्मताकुशलैश्च ततो दृष्टेविवेच्यमानाः [Ch. 751 C] सूपपन्नया प्रसिद्धया युक्तया प्रत्यायमाना अपि तां दष्टिं न कथंचित् परित्यजन्ति, एतदेव तथ्यं मिथ्यान्यदित्येषा दृढमूढतादष्टिः। (xvii) एतासां च यथानिर्दिष्टानां दृष्टोनां यद्वासनादौष्ठुल्यं सा मूलदृष्टिः। एत एव च सप्तदशदृष्टयो दोषोद्भावनामुखेनावशिष्टाभिः दृष्टिभिः पुननिदिश्यन्ते / तद्यथा (xviii) दृष्टावदृष्टदष्टि-निमित्तदृष्टिरित्युच्यते, अ[Ms. 106 B]भावादिनिमित्ताभिनिवेशिन एव सतः सर्वनिमित्तानभिनिवेशसंज्ञित्वात् / (xix) प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च, प्रयोगनिराकरणदृष्टिः, सर्वापवादिनो व्यायामनिः"सामर्थ्यसंज्ञित्वात् / (xx) परिग्रहदृष्टि: परिणतिदृष्टि 1. Ms. °वादम° for °वदमा०. 2. Ms. मिदृशां for मीदृशीं. 3. Ms.. जा. 4. Ms. ज्य. 5. T. omits अवशिष्टाभिः दृष्टिभिः. 6-6. "दृष्टावदृष्टदृष्टि" is in bottom margin of Ms, 7. Ms. adds स.