________________ 112 अभिधर्मसमुच्चयभाष्यम् बोधिपरिणामितानि दानादीनि / स्यान्न दानं न पारमिता उक्तविनिर्मक्ता धर्माः / एवं यावत्प्रज्ञापारमितामारभ्य चतुष्कोटिक प्रत्येकं योजयितव्यम् / यो दानं समाचरति सर्वोऽसौ दानपारमितान्वयं पुण्यं प्रसवतीति चतुष्कोटिकम् / प्रथमा कोटिः-महाबोध्यपरिणामितं [T. 101B] दानं समाचरति / द्वितीया कोटि:-दानपारमितां यां समादापनवर्णभाषणसुमनोज्ञताभिः / तृतीया कोटि:महाबोधिपरिणामितेन दानेन / चतुर्थी कोटि:-एतानाकारान् स्थापयित्वा। एवं यावत्प्रज्ञापार[Mss 104B]मितामारभ्य प्रत्येकं चतुष्कोटिक योजयितव्यम् / / 6132A. विशेषतो वैपुल्ये औदार्यगाम्भीर्यदेशना तत्फलस्य सर्वज्ञत्वस्य परमोदार गम्भीरत्वात्फलानुरूप्येण हेनुनिर्देशो द्रष्टव्यः / 132B (i) एकत्यानां तदनधिमोक्षे त्रासः [Ch. 751.A] बोधिसत्त्वगोत्रवैकल्यं प्रकत्या हीनचित्ततया गाम्भीयौदार्यदेशनां नाधिमोक्तुं शक्नुवन्ति / सत्यपि तदगोत्रत्वे महाबोधिमारभ्य प्रणिधानादीनां कुशलमूलादी'. नामनवरोपणात्, सत्यपि तदवरोपणे महायानप्रतिक्षेपकसत्त्वपरिगृहीतत्वादिति / (ii) अधिमुच्यमानानामप्येकत्यानामनिर्याणं नीतार्थं सूत्रम[न]न्विष्य स्वयं दृष्टिपरामर्षस्थायितया यथारुतमर्थाभिनिवेशात / तद्यथा सर्वधर्म निःस्वभावतावचनात्सर्वलक्षणेन सर्वभावापवादिनः / एवमन्येऽपि यथारुतार्थाभिनिवेशिनो महायाने न निर्यान्तोति वेदितव्यं नानाभिप्रायभाषितत्वात महायानस्येति / इदं च संधायोक्तं भगवता महाधर्मादर्श धर्मपर्याये -बोधिसत्त्वस्य यथारु[T. 102 A]तमयोनिशो धर्मान् विचिन्वतो [Ms. 105 Aऽष्टाविंशतिरसदृष्टय उत्पद्यन्ते / / अष्टाविंशतिरसदृष्टयः कतमाः / निमित्तदृष्टिर्यावदभिमानदृष्टिश्च / तत्र (i) निस्वभावाः सर्वधर्मा अनुत्पन्ना इत्येवमादिकं महायाने रुतमुपलभ्य तदभिसंव्यकुशलाः यथारुतमेवास्यार्थमधिमुच्यमाना अभाव एवायं भगवता देशितः सर्वधर्माणामनुत्पाद एवेत्यभावादिनिमितमभिनिविशन्ते संषों भवति निमित्तदृष्टि: / (ii-iv) त एवमभावादिनिमित्तमभिनिविशमानास्त्रोन्स्वभावानवदन्ते परिकल्पितं स्वभावं पर[Ch. 751 B]तन्त्रं परिनिष्पन्नं च। तत्रायं परिकल्पित: स्वभावो यद्रूपमिति वा यावनिर्वाणमिति वाऽभिलापप्रज्ञप्तिमात्रभभूतो निःशरीरार्थो यद्बाला रूपादिलक्षणं समारोपतः परिकल्पयन्ति / तत्रायं परतन्त्रः स्वभावा यत्तदेवाभूतपरिकल्पमात्रम् / तत्रायं परिनिष्पन्नः स्वभावो यत्सर्वधर्माणां तत्त्वं 1. T. & Ch. add. महा. 2. T. त्रिकोटिकम् Ch. चतुष्कोटिकम. 3. Ms. चा. 4. T. & Ch. omit विशेषतो. 5. Ms. गा. 6-6. "गाम्भीर्यो०-शक्नुवन्ति" is in top margin. T. lacks this marginal portion. 7. T.& Ch. omit आदि, 8. T. drops भगवता,