________________ धर्मविनिश्चयः क्षान्तिः-अपकारमर्षणक्षान्तिर्दुःखाधिवासनाक्षान्तिधर्मनिध्यानक्षान्तिश्च / त्रिविधं वीर्यम्-संनाहवीर्यं प्रयोगवीर्यं सत्त्वा[T. 98B]र्थक्रियावीयं च / त्रिविधं ध्यानम्-दृष्टधर्मसुखाविहाराय ध्यानमभिज्ञानिर्हाराय ध्यानं सत्त्वार्थक्रियाय च ध्यानम् / त्रिविधा प्रज्ञा-संवृत्यालंबना परमार्थालंबना सत्त्वार्थालम्बना च // तत्रामिषदानं कायोपस्तम्भः, अन्नपानाद्युपकरणः प्रतिग्राहकाश्रयानुग्रहणात् / अभयदानं चित्तोपस्तम्भः दौर्मनस्यविशेषा[प] गमाय चेतस आश्वासाय संहारात् / इत्येवमन्यदपि योज्यम् / / / हीनचित्तं पुनर्बोधिसत्त्वस्य संसारदुःखपरिखेदितया श्राव[Ms. 101B]कप्रत्येकबुद्धचित्तम्, तत्परित्यागोपस्तम्भो दुःखाधिवासनक्षान्तिर्वेदितव्या // कुशलमूला क्षयता सर्वसत्त्वेषु क्रियार्थाधिकारितया यावत्सारं निरुपधिशेषेऽपि निर्वाणधातावपरित्यागः, तदुपस्तम्भः सत्त्वार्थक्रियाय वीर्य वेदि तव्यम् // गणपरिकर्षणं कर्म अधिगमं निश्रित्य विनेयानामसमाहितस्य चित्तस्य समाधानाय समाहितस्य वा चित्तस्य विमोक्षायाववादानुशासनोप्रदानम्, तदुपस्तम्भः सत्त्वार्थक्रियायै ध्यानम् / / भूमिप्रवेशो यया देशनया धर्माधिमुक्तिपूर्विकया[T. 99A]संभारपरिपूर्याप्रमुदितां भूमिं प्रविशति, तदुपस्तम्भः संवृतिसत्यालंबना प्रज्ञा / / शेष सुयोज्यत्वान्न योजितम् // .. पुनः प्रभेदः सप्त दानानि-(i) मूलदानं गोत्रावस्थस्य बोधिसत्त्वस्य दानपारमिता, गोत्रमात्रं निश्रित्य दानात् / (ii) आधानदानं चित्तोत्पादावस्थस्य, प्रणिधानसमादानं निश्रित्य दानात् / (iii) अनुग्रहदानं स्वपरार्थप्रत्यवस्थस्य / (iv) अनवग्रहदानं तत्त्वार्थपरी[Ms. 102A]क्षावस्थस्य, दायकादिविकल्पाभिनिवेशावग्राहाभावात् / (v) निष्परिग्रहदानं प्रभावावस्थस्य, [Ch. 750A] विना बाह्येनोपकरणपरिग्रहेण गगनगजादिसमाधिभिराकाशे पाणि संचार्य यथेष्टं रत्नादिवर्षणात् / (vi) प्रत्यर्हदानं परिपाकावस्थस्य, यथाविनेयानुरूपं दानात् / (vii) महादानं परमबोध्यवस्थस्य, निरुत्तरत्वात्। एवं यावत्प्रज्ञा यथायोगं वेदितव्यम् // 1. Ms. inserts another कुशलमूला. 2. Ms. र. 3. Ms. has additional कि which is unnecessary. . 4. T. omit कर्म,