________________ 110 अभिधर्मसमुच्चयभाष्यम् .5 131G. संग्रहः दानादभिर्बोधिसत्त्वभूमिसंग्रहार्थेन, तत्रेदमुदाहरणमात्रं पारमितादिभिः / (i) गोत्रसंग्रहो दानपारमितादिगोत्रं लिङ्गतोऽनुगन्त[T. 99B] व्यम् / (ii) चित्तोत्पादसंग्रहो विशिष्टचित्तोत्पादसं [ग्रहणात् / द्विविधो हि चित्तोत्पाद:-अविशिष्टो विशिष्टश्च / तत्राविशिष्टो ऽहो वताहमनुत्तरां सम्यकसंबोधिमभिसंबुध्येयेति / विशिष्ट एवं दानपारमितां परिपूरयेयं यावत्प्रज्ञापारमितामिति / तदनेन विशिष्टेन चित्तोत्पादेन पारमितानां संग्रहो वेदितव्यः, तासां कारणभावात् / (iii) स्वपरार्थसंग्रहो यद्दानेनै [Ms. 108B] श्वयं परिगृहणात्ययं स्वार्थः, यत्पुनः परानुपकरणोपसंहारेणानुगृह्णात्ययं स्वार्थः एवमवशिष्टाभिः संग्रहो वेदितव्यः / (iv) परमार्थसंग्रहः-(a) धर्मधातुमारभ्य, तथताया दानादिसामान्यलक्ष [ण]त्वात् / (b) ज्ञानसंभारमारभ्य, सर्वज्ञताभाजनतापादनात् / (c) ज्ञानपरिग्रहमारभ्य सर्वज्ञतापरिनिष्पादनात् / (d) ज्ञानानुपरिवर्ततामारभ्य, पञ्चानां प्रज्ञापारमितानुपरिवर्तनात् / (e) ज्ञानलक्षणमारभ्य, प्रज्ञापारमितायाः सम्यग्ज्ञानस्वभावत्वात् / इत्येवं तथतासम्यग्ज्ञानस्वभावतः परमार्थो दानादिभिः संगृहीतो वेदितव्यः / एतेनोदाहरणमात्रेण शेषः संग्रहो वेदित[T. 100A]व्यः // $ 131H. विपक्षो दानादीनां यथाक्रमं मात्सर्यदौःशील्ये क्रोधकोशीद्ये विक्षेपदौःप्रज्ञे / अपि खलु यावन्तः कुशला धर्माः पारमिताभिः संगृहीतास्तेषां यो विपक्षो ज्ञेयावरणं च स तासां विपक्षो वेदितव्यः / / . 5131 I. अनुशंसः पञ्चविध फलाधिकारेणाप्रमेयो वेदितव्यः / [Ch. 750B] तद्यथा (i) यथास्वमा [Ms. 130A] मां विपक्ष प्रहाणं विसंयोग'फलम् / (ii) दृष्टे धर्मे स्वपरानुग्रहणं पुरुषकारफलम् / (iii) प्रायत्यामुत्तरात्तरविशिष्टतरतमोत्पत्तिनिष्यन्दफलम् / (iv) महाबोधिरधिपतिफलम्। (v) महाभोगता सुगतिगमनमवंराभेदसुखसौमनस्य बहुलता सत्त्वाधिप पत्यमव्याबाध्यात्म भावता महेशाख्यता च यथाक्रमं दानादीनां विपाकफलं वेदितव्यम् / / $ 131J. अन्योन्यविनिश्चयस्त्रिविधः-प्रायोगिकः, प्राभेदिकः, प्रभिद्यसांदर्शिकश्च / / 1. T. omits sifa. Ch, glaifeartaif:. 2. Ch. पन्चपारमिताना. 3. Ms. Osif for og 4. Ms. ध:. 5. Ms. मा. 6. Ms. क्षः. 7. Ms. ग:. 8. Ms. स. 9. Ms. त्मि,