________________ 108 अभिधर्मसमुच्चयभाष्यम् वार्थी भवति विपाकेन वेति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिता यां यावत्प्रज्ञापारमिता यां निर्लेपाशयः / (f) तत्र यद्बोधिसत्त्व एवं शोलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयस्य पुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यकसंबोधौ परिणामयंतीति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमितायां भावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः / / $ (iv) उपायसंनिश्रिता पारमिताभावना त्रयाकारा निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्य[Ms. 100 B]वेक्षणतामुपादाय / तथाहि स [उ]पायः . सर्वमनस्काराणामभिनिष्पत्तये // (v) विभुत्वसंनिश्रिता पारमिताभावना त्रयाकारा कायविभुत्वतः, चय:विभुत्वतः देशना विभुत्वश्च / (a) तत्र कायविभुत्वं ताथागतौ द्वौ कायौ द्रष्टव्यौस्वाभाविकः सांभोगिकश्च / (b) तत्र चर्याविभुत्वं नर्माणिक: कायो द्रष्टव्यो येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां [T. 98A] दर्शयति / (c) देशना विभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघाततः // $131F. प्रभेदतोऽष्टादशभिरुपस्तम्भैः षण्णां पारमितानां प्रभेदो वेदितव्यः। अष्टादशोपस्तम्भाः -(i) कायोपस्तम्भः, (ii) चित्तोपस्तम्भः, (iii) कुशलोपस्तम्भः, (iv) सुगत्युपस्तम्भः, (v) बोध्युपस्तम्भः, (vi) करुणोपस्तम्भः, (vi) सत्त्वापरित्यागोपस्तम्भः, (viii) हीनचित्तपरित्यागोपस्तम्भः / (ix) अनुत्पत्तिकधर्मक्षान्त्युपस्तम्भः (x) कुशलमूलप्रयोगोपस्तम्भः, (xi) कुशलमूलसमु. दागमोपस्तम्भः, (xii) कुशलमूलाक्षयतोपस्तम्भः, (xiii) अपरिखेदोपस्तम्भः, (xiv) सर्वचिन्ति[Ch 749C]तार्थसमृद्धयुपस्तम्भः, (xv) गणपरिकर्षणोपस्तम्भः, (xvi) [Ms 101A] भूमिप्रवेशोपस्तम्भः, (xvii) बुद्धधर्मसमुदानयनोपस्तम्भः, (xviii) बुद्धकृत्यानुष्ठानोपस्तम्भश्च // प्रत्येक दानादीनां त्रैविघ्यात त्रिभिस्त्रिभिरुपस्तम्भर्यथाक्रमं संग्रहो वेदितव्यः / तत्र त्रिविधं दानम्-'अभयदानं धर्मदानमामिषदानं च / त्रिविधं शीलम्-संवरशीलं कुशलधर्मसंग्राहकं शीलं सत्त्वार्थक्रियाशीलं च / त्रिविधा 1. T. & Ch. add भावना. 2. T. & Ch. add भावना. 3. Ch. adds विपुलस्य, 4. Ms ना followed by a syllable which appears स्र (?). 5. T. adds कुशलमूल. 6. Ch. adds कम. 7-7. T. & Ch. give the following order आमिषदानम. अभयनानम, धर्म 419 which is corroborated by the explanation given a little below.