________________ धर्मविनिश्चयः 107 भवति तान्सत्त्वांस्तथा दानेनानुगृह्णन्, न च ते सत्त्वास्तेन दानेनानुगृह्यमाणा इति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने मुदिताशयः / (d) उपकरतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति येषां तथा दानेनोपकरोति नात्मानम्, [Ch. 749 A] तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपा[दा] य इति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने उपकरराशयः / (e) न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभि [Ms. 99 A]संस्कृत्य प्रतिकारेण वाऽर्थी भवति विपाकेन वेति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिताभावनायां [T. 96 B]. निर्लेपाशयः / (f) यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः, सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयतीति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिता- . भावनायां कल्याणाशयः / / तत्र (a) बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः, यद्बोधिसत्त्वो गङ्गानदीवालिकासमेष्वात्मभावेषु गंगानदीवालिकासमकल्पायु:प्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहले लोकधातावाग्निपरिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेत्, एतेन पर्यायेण यावच्छीलस्कन्धो यावत्प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, शीलस्कन्धं यावत्प्रज्ञास्कन्धं [Ms. 99 B] भावयेत्, अतृप्त एव बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावना [या]माशय इति / य एवंरूप आशयोऽयं बोधिसत्त्व [स्य] शीलपारमिताभावनायामतृप्ताशयो [T. 97 A] यावत्प्रज्ञापारमितायां भावनायाम्। (b) यदबोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपर[]मा बोधिमण्डनिषदनान्न भ्रंशयति न विच्छिनत्तीति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः। (c) मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन्, न त्वेव ते सत्त्वा अनुगृह्यमाणा इति / य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञा[Ch. 749 B]पारमिताभावनायां मुदिताशयः / (d) उपकरतरांश्च स बोधिसत्त्वस्तान् सत्त्वानात्मनः संमनुपश्यति येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापा[Ms. 100 A]रमिताभावनया उपकरोति नात्मानम्, तेषामनुत्तरां सम्यक्संबोध्युपस्तम्भतामुपादायेति / य एवरूप प्राशयोऽयं बोधिसत्त्वस्य शोलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपक राशयः। (e) न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमितामयं यावत्प्रज्ञा र[T. 97 B]मितामयं पुण्यमभिसंस्कृत्य तस्य प्रतिकारेण 1. Ms. adds another सं. 2. Ms. ना.