SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ धर्मविनिश्चयः कौशल्यम / [Ch. 745 B] धर्ममात्रहेतुकत्वेऽपि सत्यनुरूपाद्धेतोरनुरूपस्यैव फलस्योत्पत्तिः, तद्यथा सुचरितस्येष्टो विपाको दुश्चरितस्यानिष्ट इत्येवमादि यज्ज्ञानमिदं स्थानास्थानकौशल्यं वेदितव्यम् // (iv) क्लेशविशोधनमालंबनं लौकिकमार्गाधिकारेणाधऊर्ध्वभूमीनामौदारिकशान्तता, तेन पर्यवस्थानविष्कम्भणात् / लोकोत्तरमार्गाधिकारेण समास[Ms. 90 B]तस्तथता, व्यासेन चत्वार्यसत्यानि, तेनानुशयसमुद्घातात् / / ___$125. सूत्रादिधर्मविचाराणां संबन्धेन चतस्रो युक्तयो वर्ण्यन्ते, ताभिस्त. द्विचारणात् / / तत्र (i) अपेक्षायुक्तिर्या संस्काराणामुत्पत्तौ प्रत्ययापेक्षा, तद्यथाकुरस्योत्पत्ती वीजोदकक्षेत्राण्यपेक्ष्यन्ते, विज्ञानस्येन्द्रियार्थमनस्कारा इत्येवमादि / (ii) कार्य कारणयुक्तिस्तद्यथा चक्षुरादीनां चक्षुर्विज्ञानाद्याश्रयभावः रूपादीनामालंबनभावः, चक्षविज्ञानादीनां रूपादिप्रतिविज्ञापनम, सवर्णकारादीनां च शिल्पिनां सुवर्णादिघटनमित्येवमादि। (iii) उपपत्तिसाधनयुक्तिस्वभाववि. शेषसंगहीतस्य साध्यस्यार्थस्य प्रत्यक्षादि[T88B]प्रमाणाविरुद्धः प्रतिज्ञाधुपदेशः / (iv) धर्मतायुक्तिस्तद्यथाग्निना दाहः, उदकेन क्लेद इत्येवमादिका प्रसिद्धा धर्माणां धर्मता। यथोक्तं चक्षुः समृद्धं शून्यं नित्येन यावदात्मीयेन / तत्कस्य हेतोः / प्रकृतिरस्यैषेति / / 6126. (i)नामपर्येषणा [Ch 745C] नामकायादीनां प्रज्ञप्ति सत्त्वादपरिनिष्पन्नमेषां स्वलक्षण [As. p. 82]मिति या विचारणा। (ii) वस्तुपर्येष[Ms. 91A]णा स्कन्धादीनां तथा परिनिष्पत्तिर्यथा नामकायादिभिरभिलप्यन्त इति या संतोरणा परीक्षणेत्यर्थः / (iii) स्वभावप्रज्ञप्तिपर्येषणा याऽभिधानाभिधेयसंबन्धे स्वभावप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तत्वेन संतोरणा। अभिधाना. भिधेयसंबन्धः पुनरन्योन्य संप्रत्ययनिभित्तत्वम् / तथाहि व्युत्पन्नव्यवहारस्याभिधानमात्रं श्रुत्वा तदभिधेये संप्रत्यय उत्पद्यते स्मृतिमुखेन, अभिधेयं वा पुनरुपलभ्य तदभिधाने। इत्येवंविधे संवन्धे प्रसिद्धे चारित्येवमादिस्वलक्षणप्रज्ञप्तिमात्रं तदाख्यामांसपिण्डादिव्यवहारस्य निमित्तं भवतीति या परीक्षेयमुच्यते स्वभावप्रज्ञप्तिपर्येषणा। (vi) विशेषप्रज्ञप्तिपर्येषणा' या तथैवाभिधानाभिधेय. 1. T. and Ch. add काल. 2. Ms. र्या. Ch. अनित्येन. T. supports our Ms. 4. Ch. अनात्मीयेन. T. supporcs our Ms, 5. Ms. प्त. 6. T. and Ch. add लक्षण. 7. T. lacks अन्योन्य. 8. "विशेषज्ञप्तिपर्येषणा" is in the bottom magin of Ms.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy