________________ 98 अभिधर्मसमुच्चयभाष्यम् पदव्यञ्जनकायसंग्रहीता सूत्रादिदेशनेत्यर्थः / (ii) आकारः, यान् स्कन्धादीनर्थप्रकारानारभ्य सा देशना, तदाकारास्ते चित्तचैतसिका वेदितव्याः / (iii) आश्रयः पर विज्ञप्तिस्मृतिर्वासना च। तत्र देशनाकाले परविज्ञप्तिराश्रयो योऽसावुच्यते परतो घोषत इति तत उत्तरकालं स्मृति राश्रयो यथाश्रुतमनुस्मृत्याभ्यसनात् / तत उत्तरकालं वासनाऽऽश्रयस्तदनुस्मृतिमन्तरेणापि पश्चादभ्यासभावना बलेन प्रतिभासनादिति / (iv) संप्रयोगः चित्तचैतसिकानामन्योन्यसहायभावेन सूत्राद्यालंबने स्कन्धादिप्रतिसंयुक्ताकारैः संप्रतिपत्तिः / / $ 124. धर्मे आलंबन [Ms. 89 B] प्रभेदो व्याप्यालंबनादिकश्चतुर्विधः / / (i) व्याप्यालंबनं पुनः सविकल्पप्रतिबिम्बादिभेदेन चतुर्विधम / तत्र (a) अधिमुक्तिमनस्कार एकान्तलौकिको यो मनस्कारः / (b) तत्त्वमनस्कारो लोकोतरस्तत्पृष्ठलब्धश्च / (c) यावद्भाविकतया धर्माणामेतावन्ति सर्वधर्मवस्तुनि यज्ज्ञेयव्यवस्थानम् तद्यथा स्कन्धधात्वायतनानि / [Ch. 745 A] यथावद्भाविकतया एभिः प्रकारैः सुज्ञेयमिति। तद्यथा[T. 87 B] सत्यमुखेन तान्येव स्कन्धधात्वायतनानि यथासंभवं दुःखतो ज्ञेयानि यावन्मार्गतः। आकारमुखेनक सत्यं चतुभिराकारै यम्, अविशेषतश्च सर्वाणि तथताकारेण / धर्मोद्दानाधिकारेण वाऽनित्यतः सर्वसंस्कारा ज्ञेया यावच्छान्ततो निर्वाणम् / विमोक्षाधिकारेण वा शून्यतो यावदनिमित्त त] इति / (a) कार्यपरिनिष्पत्तिराश्रयपरि निष्पत्तिः,4 परिनिवृत्ताश्रयस्याविपरीतालंबनसंप्रख्यानात् / यथावद्भाविकताया निर्देशे षोडशप्रकारा उक्तास्त्रयश्च विमोक्षाकाराः तेषां चान्योन्यसंग्रहः / कथ कृत्वा / षो[Ms. 90 A]डशानामाकाराणां द्वौ शून्यताकारौ-शून्याकाराऽनात्माकारश्च / षडप्रणिहिताकारा:-अनित्याकारा दुःखाकारो हेतुसमुदयप्रभवप्रत्ययाकाराश्च, तैस्त्रधातुकेऽप्रणिधानात् / अष्टावनिमित्ताकाराः शेषाः" निरोधमार्गयोनिमित्तीकर्तुमशक्यत्वात् / / (ii) चरितविशोधनमालंबनं रागचरितादीनामशुभादि, तेनोत्सदरागाधुपशमनात् / / (iii) अविद्यादयो धर्माः संस्कारादीन्धर्मानभिष्यन्दयन्ति, न ह्येषां निर्हेतुक उत्पादो नापीश्वरादिविषमहेतुक इति यज्ज्ञानमिदं प्रती[T. 88A] त्यसमुत्पाद 1. Ms. रि. 2. Ms. ल. 3. T. and Ch. वासना for भावना. 4. T. and Ch. °परिनिवृत्तिः . 5. Ms. शो. 6. Ms. ण 7. Ch. lacks शेषाः.