________________ धर्मविनिश्चयः 5 121 B. (i) पुनः सूत्रपिटकं निश्रित्य विनेयाः शिक्षात्रये व्युत्पद्यन्ते, तत्र तस्य विस्तरेणोद्भावितत्वात् / (ii) विनयं निश्रित्याधिशीलमधिचित्तं शिक्षा निष्पादयन्ति, तत्र प्रातिमोक्षसंवरशिक्षामार्गोपदेशनिश्रयेण शोलपरिशोधनात्तत्परिशुद्धिकृताविप्रतिसाराद्यानुपूा च चित्तसमाधानात् / (iii) अभिधर्म निश्रित्याधिप्रज्ञं शिक्षा निष्पादयन्ति, तत्र विस्तरेण धर्मप्रविचयोपायोपदेशादिति अतोऽपि पिटकत्रयव्यवस्थानम् / / 121. C. (i) पुनः सूत्रपिटकं निश्रित्य ग्रन्थार्थव्युत्पत्तिः / (ii) [As. p. 80] विनयं निश्रित्य तदुभयसाक्षातक्रिया, शिक्षाप्रतिपत्तिप्रभावित]त्वा-द्विनयस्य / ततो- [Ms 88 B] धर्मार्थयो: साक्षात्क्रयाया: पदस्थानमित्युच्यते आश्रयार्थेन / (iii) अभिधर्म निश्रित्य परस्परं सांकथ्यविनिश्चयकृतेन धर्मसंभोगेन [T. 86 B] स्पर्शविहारो भवति, तत्र बहुप्रकारं धर्माणां स्व लक्षणादिधर्मताया व्युत्पादनात् // $ 122. एतान्येव त्रीणि पिटकानि चतुरशीतिधर्मस्कन्धसहस्राणि भवन्ति, श्रावकयानाधिकारेण यानि स्थविरानन्देनोद्गृहीतानि / / किं पुनरेकस्य धर्मस्कन्ध[स्य] परिमाणम् / दशशतसंख्यो धर्मस्कन्धः सहस्रसंख्य इत्यर्थः / यद्येवं सहस्रसंख्य इत्येवं कि नोच्यते / साहस्रिकैकस्कन्धव्यवस्थाने प्रयोजनज्ञापनार्थम् / तथा कादिवद्धया दशसंख्या शतसंख्या सहस्रादिसंख्या: / तद्दशशतसंख्या उपनिषदो द्रष्टव्या: / तद्यथा दश शतानि सहस्रम्, शतं सहस्राणां शतसहस्रम्, शतं शतसहस्राणां कोटिरित्येवं सर्वासूत्तरासु संख्यास्ववश्यमनयोः दशशतसंख्ययोरन्यतरोपनिषद्भवति / अत एते एव समस्य दशशतान्येको धर्मस्कन्धो व्यवस्थाप्यते / अनया च गणनया चतुरशीतिधर्म[Ch. 744C]स्कन्धसह[Ms. 89A] स्राण्यष्टौ कोट्यः चत्वारिंशच्च लक्षा भवन्ति / / - $123. स 'एष पिटकत्रयसंगृहीतो धर्मः कस्य गोचरः / श्रुतमयादीनां चित्तचंतसिकानां गोचर आलंबनमित्यर्थः / / एतत्प्रसंगेन सालंबनादिलक्षणानां चित्तचंतसिकानां धर्ममारभ्यालंबनादिकं व्यवस्थाप्यते / तत्र (i) धर्मे [T. 87 A] तेषां किमालंबनम् / सूत्रादि नाम 1. Ms. °नुपूp is illegible. 2--2 "द्विनयस्य / ततो" is illegible. T. विनयपिटक. 3. T. and Ch, add सामान्य. 4. Ms. परिणामं for परिमाणम् . 5. T. and Ch. add दशवृद्ध्या . 6. Ms. has another शत here. 7. T. Chapter VII. 7