SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 100 अभिधर्मसमुच्चयभाष्यम् संबन्धे नित्यानित्योत्तरानुत्तररूप्यसनिदर्शनानिदर्शनता[T. 89A]दि विशेषलक्षणप्रज्ञप्तिमात्रस्य व्यवहारनिमित्तता संतोरणा // 5127. चत्वारि यथाभूतपरिज्ञानानि यथापर्येषितानि नामाद्यनुपलब्धिज्ञानानि // $128. [Ch. 746A] *समाधिप्रयुक्तस्य यो [Ms. 91B]गभूमिः पञ्चाकाराऽऽधारादिः / 'सत्र (i) आधारो यादृशं बाहुश्रुत्यं शमथविपश्यनयोः प्रतिष्ठा भवत्यालंबनयोगेन तदाधार इत्युच्यते / तत्पुनः संभृत संभारस्य सत्याभिसमयमधिकृत्योद्गृहीतं यत्सूत्रादिकं श्रुतम् / (ii) प्राधानं तदालंबनो योनिशोमनस्कारः, तेन तस्मिन् बाहुश्रुत्येऽविपरीतार्थचित्ताकारेण चित्ताकरणात् / (iii) आदर्शस्तद्बाहुश्रुत्यालंबनः सहनिमित्तेन समाधिः, ज्ञेयवस्तुसभागप्रतिबिम्बाकार इत्यर्थः / प्रादर्शत्वं पुनरस्य तेन ज्ञेयविम्वपरीक्षणाद्वेदितव्यम् / (iv) आलोको ग्राह्यग्राहकानुपलब्धिज्ञानं दर्शनमार्गसंगृहीतं प्रत्यक्षवृत्तित्वादिति / कथं च पुनः बोधिसत्व एकस्यां यौगभूमौ प्रयुक्तो नोपलम्भं स्पृशति संभृतपुण्यज्ञानसंभारो बोधिसत्त्वः कल्पासंख्येयनिर्यातस्तथाप्रतिवेधानुकलं10 श्रुतं योनिशोमनसिकुर्वन समाधि निष्पादयति / स एवं समाहिते चित्ते यज्ज्ञेयप्रतिविम्ब निश्रित्य ध्यायति तत्त[Ms. 92 B]स्मात्समाहिता[T. 89 B]च्चित्तादनन्यदिति संपश्यंस्तम्मिन प्रतिविम्बे विषयसंज्ञां व्यावर्त्य तदाकार स्वसंज्ञामात्रमवधारयति / तदा चासौ स्वचित्तमात्रावस्थानादध्यात्म स्थितचित्तो भवन् सर्वथा ग्राह्यभावं प्रति. वेदयते / ततश्च ग्राह्याभावाद्ग्राहकमपि न परिनिष्पन्नमिति.तस्याप्यभावं परिवेदयते / ततः प्रत्यात्मं तदुभयस्वभावोपलम्भापगतमनुपलम्भमधिगच्छति / एतदेव चाधिकृत्योक्तं भगवता प्रतिबिम्बं मनः पश्यन्नि11ति विस्तरः। (v) [As p. 83] आश्रयः आश्रयपरिवृत्तिः, दौष्ठुल्यापगमात्परिशुद्ध आश्रय इत्यर्थः / सा चेयं योगभूमिर्हेतुतः फलतश्च निर्दिष्टा वेदितव्या / तत्राधारादिभिश्चतुभिर्हेतुनिर्देशः पश्चिमेनकेन फल निर्देश इति // 1. Ms. नित्यानित्यस्योत्त. 2. T. lacks आदि. 3. Ms. ता. 4. T. and Ch. have धर्मे. 5. Ch. adds बोधि. 6. T. and Ch. °आधारणात् (?) 7. Ms. अ. 8. Ms. न. 9. Ms. अ. 10. T. adds धर्म. Ch. adds सूत्रादिधर्म. 11. T. adds बोधिसत्त्वः समाहितः,
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy