________________ अभिधर्मसमुच्चयभाष्यम् (ii). सम्यकस्मृतिसमाधिः समाधिस्कन्धः / [Ms. 87 A] (iii) सम्यग्दृष्टिसंकल्पव्यायामाः प्रज्ञास्कन्धः / (iv) सम्यविमुक्तिविमुक्तिस्कन्धः / (v) सम्यग - ज्ञानं विमुक्तिर्ज्ञानदर्शनस्कन्ध इति // 110. पुनर्गिसत्यस्य चत्वार आकाराश्चत्वारि लक्षणानि / तत्र (i) तत्त्वार्थ मार्गयत्यनेति मार्गः। (ii) अय[था] भूतानां क्लेशानां प्रतिपक्षत्वात् न्यायः। (iii) तत्त्वानवबोधदोषेणानित्यादिविपर्यासविपर्यस्तस्य चित्तस्याविपर्यासे तत्त्वावबोधे प्रतिपादनात्प्रेतिपत् / (iv) नित्य आत्यन्तिके निःसरणपदे यानान्नैर्याणिक इति॥ __$111. दुःखादिसत्येष्वनित्यादयः षोडशाकारा लौकिका लोकोत्तराश्च सन्ति / तत्र (i) लोकिका ज्ञेयेऽप्रविष्टाः [T.84B] सावरणाः सविकल्पाश्च, तथताया अप्रतिवे'धात् क्लेशानुशयित्वादभिलापमुखेन प्रपञ्चनाच्च यथाक्रमम् / (i) विपर्ययेण लोकोत्तराः सुप्रविष्टा निरावरणाश्च सन्तो निर्विकल्पतया लौकिकेभ्यो विशिष्यन्ते / कथं पुनरेतेऽविकल्पयन्तो ज्ञेयेषु प्रविष्टा भवन्ति / [Ms. 86 B] यस्मादेतेषु वर्तमानोऽनित्यार्थ पश्यति साक्षादनुभवति, न त्वनित्यमिति पश्यत्य. भिलापप्रपञ्चमुखेनेति / एवं दुःखादिष्वाकारेषु योजयितव्यम् / / 1. Or [अन्या]यभूतानां or अभूतानां. 2. Ms. षे. 3. Ms तो. 4. T. has "सत्यविनिश्चयः".