SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ III (धर्मविनिश्चयो नाम तृतीयः समुच्चयः) 6112. [As. p. 78, Ch. 743B] धर्मविनिश्चये धर्मो द्वादशाङ्गं वचोगतम् // 113. तत्र सूत्रं यदभिप्रेतार्थसूचनाकारेण गद्यभाषितम् / किं पुन: कारणं तथागतस्तमभिप्रेतमर्थ विवृत्यैव न देशयतीत्याह दशानुशंसान संपश्यंस्त. थागत : सूचनाकारेण धर्म देशयति (i) सुखं व्यवस्थापयति, दैशिकहि, बहुधा व्यवस्थाप्य प्रापणीयस्यार्थस्य, संक्षिप्याकृच्छेण व्यवस्थापनात् / (ii) सुखं देशयति, अल्पेन' महतोऽर्थविस्तरस्य प्रत्यायनात्, तद्यथा स्थापयति' संस्थापयतीत्येवमादि / (iii) श्रोताऽपि सुखमुद्गृह्णाति / (iv) धर्मगौरवतया क्षिप्रं संभारान् परिपूरयति, भावगम्योऽयं धर्म+ इत्यवगम्य जातास्थस्य [T. 85 A] तस्मिन् धर्मे आदरमुखेन श्रद्धादिसंभारपरिपूरणात् / (v) प्राशु धर्मतां प्रतिविध्यति, तथादरप्रयोगिणः प्रज्ञायाः तैक्षणीभावात् / (vi-viii) रत्नेष्ववे[Ms. 87A]त्य प्रसादं प्रतिलभते, देशनाया: सुव्यवस्थितभावगमेन दैशिकादिष्वभिप्रसादोत्पादात् / (ix) परमदृष्टधर्मसुखविहारं स्पृशति, अभिप्रायार्थं तीव्रण योगेन चिन्तयित्वा लब्धवतः प्रामोद्यविशेषाधिगमात् / (x) सांक[Ch. 743C]थ्यविनिश्चयेन (a) सतां चित्तमाराधयति, गूढार्थविवरणात्, अत एव (b) पण्डित: पण्डित इति संख्यां गच्छति, यशोऽस्य समन्तानिश्चरतीत्यर्थः / उभयं चैतत्पश्चिममभिसमयकोऽनुशंसो द्रष्टव्यः / / - $114. नीतार्थ सूत्रं व्याकरणम् तेन विवृत्याभिसंधिव्याकरणात् / / $115. उदानं यदात्तमनस्केनोदाहृतम् तद्यथा यदा इमे प्रादुर्भवन्ति धर्मा इत्येवमादि / / - 116 निदानं यत्किंचिदेव पुद्गलमुद्दिश्य भाषितं सोत्पत्तिकशिक्षाप्रज्ञप्तिकभाषितं वा, तद्यथास्मिनिदानेऽस्मिन् प्रकरण इति विस्तरः / / 1. T. & Ch. add वचनेन. 2. Ch. चित्तं स्थापयति. The sentence चित्तं स्थापयति is brief, but its meaning is extensive, as it presupposes an elaborate pro cess of meditation. 3. Ch. बोधिसंभारान्. 4. Ch. बुद्धधर्म. ..5. Ms. भोगेन.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy