________________ सत्यविनिश्चयः वौष्ठुल्यानि यथाक्रमं कामरूपारूप्यावचराणि वेदितव्यानि। (xxii) क्लेशावरण दौष्ठुल्मं धावकप्रत्येकबुद्धबोधि[वि] पक्षः। (xxiii) समापत्त्यावरणवौषतुल्य नवा[नुपूर्वसमापत्त्यभिनिर्हार[वि]पक्षः / (xxiv) [Ms. 85A]मावस्पोष्टमं सर्वज्ञताविपक्षः / इत्येवमेषां यथायोगं सर्वदौष्ठुल्यानां प्रतिप्रस्रब्र्धनिष्ठामार्गः / यथोक्त-"तस्य चेतोविमुक्तः पारिपूर्या प्रज्ञाविमुक्तः पारिपूर्या कायदौष्ठ्ल्यानां प्रतिप्रस्रब्धः। स्मृत्या समन्वागमहेतोरेवमस्य प्रथमं द्वारं सुदान्तं भवति सुगुप्तं सुरक्षितं सुसंवतं सुभाषितम्, यदुत चक्षुर्विज्ञेयेषु रूपेष्वेवं [T. 83B] यावन्मनो विज्ञेयेषु धर्मेष्वि"ति // $105. वज्रोपमः समाधिर्भावनामार्गस्यान्त्या प्रहाणमार्गावस्था वेदितव्या। [Ch. 742 C] स च समाधिनिरन्तरस्तत्प्रवाहस्य लौकिकेन मार्गे णान्तराखण्डनात् / दृढः सर्वावरणरच्छिद्रणात् सर्वावरणभेदितया च सारत्वात् / एकरस इति निर्विकल्पैकरसत्वात् / व्यापी सर्वज्ञेयसामान्यतथतालंबनत्वात् / एतदर्थप्रतिबिम्बनार्थ [As. p. 77] भगवतोक्तम् - तद्यथा महाशैल: पर्वतोऽखण्डोऽच्छिद्रोऽशुषिर एकघनः सुसंवृत इति // ___$106. निरन्तराश्रयपरिवृत्तिविधाऽशैक्षमार्गलाभिनः / (i) चित्ताधयपरिवृत्तिधर्मता, चित्तस्य प्रकृतिप्रभास्वरस्याशेषागन्तुकोपक्लेशा [Ms. 85 B]पगमाद्या परिवृत्तिः, तथतापरिवृत्तिरित्यर्थः / (ii) मार्गाश्रयपरिवृत्तिः पूर्वं लौकिको मार्गोऽभिसमयकाले लोकोत्तरत्वेन परिवृत्तः शैक्षश्रोच्यते सावशेषकरणीयत्वात् / यदा तु निहताशेषविपक्षो भवति धातुकवैराग्यात्तदास्य मार्गस्वभावस्याश्रयस्य परिपूर्णा परिवृत्तिर्व्यवस्थाप्यते / (iii) दौष्ठुल्याश्रयपरिवृत्तिरालय विज्ञानस्य सर्ववलेशानुशयापगमेन परिवृत्तिर्वेदितव्या / / . 107. क्षये सति, विषये वा तस्मिन्- यज्ज्ञानं क्षय ज्ञानमेतदुक्तं भवति। [T. 84 A] निरवशेष प्रक्षीणे समुदये यज्ज्ञानं तदवस्थस्य हेतुनिरोधालंबनं वा क्षयज्ञानमिति // ___$ 108. तथानुत्पादे सति विषये वा तस्मिन् यज्ज्ञानमनुत्पादज्ञानम आयत्यां सर्वस्य दुःखस्यात्यन्तमनुत्पत्तिधर्मतायां सत्यां यज्ज्ञानमन्यसत्यालंबनमिति / यद्वा दुःखसत्यानुत्पादालंबनं तदनुत्पादज्ञानमित्यर्थः / / 6109. दशाशैक्षा धर्मा अशैक्षाञ्छीलादीन् पञ्च स्कन्धानधिकृत्य / तत्र (i) अशैक्षा सम्यग्वाक्क [Ch. 743 A]न्तिाजीवा अशैक्षशीलस्कन्धः / 1. T. & Ch. 'सब्धिः . 2. T. & Ch. चर्या but. Asv (T). मार्ग. 3. Ms. शा. 4...+. Ms. यथाज्ञानं यक्ष° for our यज्ज्ञानं क्षय.