________________ 90 अभिधर्मसमुच्चयभाष्यम् क्लेशावरणविशोधनाङ्गम, तया सम्यक्शमथादिनिमित्तासंप्रमोषेण लयाद्युपक्लेशानवका[Ms. 82B] शात् / (h) सम्यक्समाधिवैशेषिकगुणावरणविशोधनाङ्गम् , तेनाभिज्ञादिगुणाभिनिर्हरणात् / (iv) भावना बोध्यङ्गवत्, तद्यथा सम्यग्दृष्टि भावयति विवेकनिश्रितामिति विस्तरः / 1 तेषां च पदानामर्थः यथानिर्दिष्टं पुरस्तात्तथानुगन्तव्यः-1 / / 697-98. 4-प्रतिपदां धर्मपदानां च पूर्ववदर्थनिर्देशो वेदितव्यः / दुखा प्रतिपदनागम्यारूप्यनिश्रिता यथाक्रमं शमथवि [Ch. 741B] पश्यनामान्द्यात् / (ii) सुखा ध्याननिश्रिता युगनद्धवाहित्वात् (iii) धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोर्मुद्विन्द्रियाणाम् / (iv) क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति / / -8,7 99. शमथः नवकारचित्तस्थितिः / तत्र (i)वाह्यालंबनेभ्यः प्रतिसंहृत्याध्यात्ममविक्षेपापादितश्चित्तस्योपनिबन्धः स्थापना / (ii) तस्य चित्तस्यैवमादित उपनिबद्धस्य चलस्यौदारिकस्य तस्मिन्नेवालंबने संततियोगेन सूक्ष्मोकरणेन चाभिसंक्षेपः संस्थापना। (iii) तस्य स्मृतिसंप्रमोषाबहिर्धा विक्षिप्तस्य पुनः प्रतिसंहरणमवस्थापना / (iv) आदित एव तस्य चित्तस्य बहिरविसारायोपस्थितस्मृतितोपस्थापना / (v) पूर्वमेव विक्षेपनिमित्तेषु रूपादिष्वादीनवसंज्ञामधि पति कृत्वा चित्तस्य प्रसरादानं दमनम् / (vi) चेतःसंक्षोभकरेषु वितर्कोपक्लेशे[T. 81B]ष्वादीनवदर्शनेन प्रसरादानं शमनम् / (vii) स्मृतिसंप्रमोषाद्वितर्कादिसमुदाचारे सति तदनधिवासना व्युपशमनम् / (viii) अभिसंस्कारेण [Ms. 83A] निश्छिद्रनिरन्तरसमाधिप्रवाहावस्थापना एकोतीकरणम् / (ix) स्वभ्यस्तत्वादनभिसंस्कारेणानाभोगेन चित्तसमाधिप्रवाहस्याविक्षेपेण प्रवृत्तिः समाधानमिति // 6 100. विपश्यना यथापि तद्धर्मान्विचिनोतीत्येवमादिः। तत्र चरितविशोधनमालंबनं कौशल्यालंबनं वा क्लेशविशोधनं वा यावभाविकतया 11. "तेषां च-पुरस्तात्तथानुगन्तव्यः" is in the bottom margin. T. omits this marginal passage. 2. Ms appears तथा. 3. Ms. निर्दिष्टं is illegible. 4....4. Ch. & Adv (T) omit "प्रतिपदां-निर्देशो वेदितव्यः". . 5. Ms. प्रतिपदं for प्रतिपदां. 6""6. दुःखा प्रतिपद'-तीक्ष्णेन्द्रियाणामिति" is in the bottom margin. T. omits this marginal passage. Ch. & Adv (T) add here as follow-अनभिध्याऽव्यापादमधिशीलं शिक्षायाः परिशोधनमननुनयाप्रतिघमखेन शिक्षापदाखण्डनात् / सम्यकस्मृत्याऽधिचित्तं शिक्षायाः परिशोधनमालंबनासंमोषे सति चित्तसमाधानात् / सम्यक्समाधिनाऽधिप्रज्ञां शिक्षायाः परिशोधनं समाहितचित्तस्य यथाभूतज्ञानात् / Cf.888 (ix). 8. Ch. adds आलंबनं. 7.