SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सत्यविनिश्चयः विचिनोति, यथावद्भाविकतया प्रविचिनोति, [Ch. 741C] सविकल्पेन' मनस्कारेण प्रज्ञासहगतेन निमित्तीकुर्वन् परिवितर्कयति, संन्तीरयन् परिमीमांसामापद्यत इति / / अपि खलु [शमथ] विपश्यनामागम्य चत्वारो मार्गा इति चत्वारो मार्गोपदेशनामधिकृत्य / तत्र प्रथमः शमथस्य लाभित्वादभिनिषीदन्नेव चित्तं स्थापयति यावत्समाधत्ते, विपश्यानाया अलाभित्वात्तु समाधि निश्रित्य पश्चात्त थानिषण्णस्तान् धर्मान्विचिनोति यावत्परिमीमांसा मापद्यते / द्वितीयो विपर्ययेण वेदितव्यः। तृतीया उभयस्यालाभ्युभयत्र योगं करोति / कथं कृ[Ms. 83B]त्वा, श्रुतोद्ग्रहण मुखेन विवश्यनायां योगं करोति तत्पूर्वकं च शमथे / चतुर्थ उभयस्य लाभात् // 5 101 (i) [As.p.76] अज्ञातमाशा[T. 82A]स्यामीन्द्रियं प्रयोगमार्गे निर्वेधभागीयसंगृहीते पञ्चदशसु च दर्शनमार्गचित्तक्षणेषु यदि"न्द्रियम्, तद्यथा मनइन्द्रियम्, पञ्च श्रद्धादीनि, अनागम्यादिनिश्रयभेदेन यथासंभवं सुखसौमनस्यदौर्मनस्योपेक्षेन्द्रियाणां चान्यतमम् / दौर्मनस्येन्द्रियं पुनः प्रयोगकाले निर्वेधभागीयपृष्ठेनोत्तरविमोक्षस्पृहासंगृहीतं वेदितव्यम् / तदेतत्संभवतो दशविधमिन्द्रियमनाज्ञातपूर्वस्य तत्त्वस्याज्ञाय प्रवृत्तत्वादनाज्ञातमाज्ञास्यामीन्द्रियमित्युच्यते / (ii) एतदेव दशविधमिन्द्रियं षोडशादर्शनमार्गचित्तक्षणाद्यावद्वज्रोपमः समाधिरित्येतस्मिन्शैक्षमार्गे प्राज्ञेन्द्रियमित्युच्यते, अपूर्वज्ञेयाभावात् / (iii) एतदेव [Ch. 742A] पुनर्नवविधमिन्द्रियं दौर्मनस्येन्द्रियवर्जमशैक्षमार्गे आज्ञातावी"न्द्रियमित्युच्यते, आज्ञाताविनोऽर्हत इन्द्रियमिति कृत्वा // 11 $ 102. भावना[Ms. 84A]मार्गाधिकारेणेदमपि वक्ष्यते / ऊर्ध्वभूमिके मार्गे संमुखीभावेन भाव्यमानेऽसंमुखीभूतान्यप्यधोभूमि कानि कुशलमूलकानि 1.. -Ms. अविकल्पेन. 2. T. & Ch. omit पश्चात्. 3. Ms. स. 4. Ms. हे. 5. T. & Ch. add "योगं करोति". 6. Ms. लक्षणेषु for क्षणेषु. 7. Ms. दी. 8. Ms. ज्ञ. 9. Ms. मि. 10. Ms. अ. 11. Ch. adds that there is no daurmanasyendriya in asaiksakaya, because of absence of object to be studied. . 12. T. lacks भूमि.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy