________________ सत्यविनिश्चयः संनिश्रयाङ्गम्, उपस्थितस्मृतेः सर्वकुशलधर्माभिलपनात् / (b) धर्मविषयः स्वभावाङ्गम्, संबोधिलक्षणत्वात् / (c) बोयं निर्याणाङ्गम्, तेन यावद्गम्यं गमनात् / (d) प्रीतिरनुशंसाङ्गम्, तया संतानप्रीणनात् / (eg) प्रस्रन्त्रिः [Ms. 81B] समाधिरुपेक्षा चासंक्लेशाङ्गम् / तत्र प्रस्रब्ध्या न संक्लिश्यते, तया दौष्ठुल्यस्रावणात् / समाधौ न संक्लिश्यते, तत्र स्थितस्याश्रयपरिवर्तनात् / उपेक्षाऽसंक्लेशः, अभिध्यादौमनस्यापगताक्लिष्टावस्थास्वभावत्वात् / (iv) भावना स्मृतिसंबोध्यङ्ग भावयति विवेकनिश्रितमित्येवमादिरेभिः चतुभिः पवैर्यथाकर्म चतुःसत्या'लंबना बोध्यङ्गभावना परिदीपिता / तथाहि (a) दुःखं दुःखत आलंब - मानस्य तद्विवेकान्वेषणाद्दुःखालंबनं विवेकनिश्रितमित्युच्यते / (b) तृष्णालक्षणं दुःखसमुदयं दुःखसमुदयत आलंबमानस्य [T. 80B] तद्विरागान्वेषणात्तदालंबनं विरागनिश्रितम् / (c) दुःखनिरोधं दुःखनिरोधत अालंब मानस्य तत्साक्षात्करणान्वेषणात्तदालंबनं निरोधनिश्रितम् / (d) दुःखनिरोधगामिनी प्रतिपद् व्यबसर्ग इत्युच्यते, तया दुःखविसर्जनात् / तां तथा लंबमानस्य तद्भावनान्वेषणात्तदालंबनं व्यवसर्गपरिणतमित्युच्यते / (v) फलं दर्शनहेयाना [Ms. 82A] क्लेशानां प्रहाणम्, बोध्यङ्गानां दर्शनमार्गस्वभावत्वात् / / 5.96 (i) [Ch. 741A] मार्गाङ्गानामालंबनं दर्शनमार्गादुत्तर कालं सैव यथादृष्टानां सत्यानां यथाभूतता। (ii) स्वभावः सम्यग्दृष्टयादयोऽष्टौ धर्माः / तत्र (a) सम्यग्दृष्टिः परिच्छेदाङ्गम्, तया यथानुभवं तत्त्वावधारणात् / [As. p. 75] (b) सम्यक्संकल्पः परसंप्रापणाङ्गम्, तेन यथाधिगमं व्यवस्थाप्य वाक्समुत्थापनात् / (c-e) सम्यग्वाक्कन्तिाजीवाः परसंप्रत्ययाङ्गम्, तैर्यथाक्रममधिगन्तुः परैर्दृष्टयादिविशुद्धिनिश्चयनात् / तत्र सम्यग्वाचाऽधिगमानुरूपः प्रश्नव्याकरणसांकथ्यविनिश्चयेनास्य दर्शनविशुद्धिविज्ञायते / सम्यक्कर्मान्तेनाभिक्रमप्रतिक्रमादिषु संपन्नचारित्रतया शीलविशुद्धिः सम्यगा[T. 81A]जीवेन यथानुज्ञं धर्मेण चीवरादिपर्येषणादाजीवविशुद्धि रिति। (f) सम्यगव्यायामः क्लेशावरणविशोधनाङ्गम, तेनाशेष संयोजनप्रहाणात् / (g) सम्यक्स्मृतिरुप 1. T. आर्यसत्य. 2. Ms. inserts न. 3. Ms. inserts न. 4. Ms. inserts न. 5. Ms. तथता for तां तथा. 6. T. omits दर्शनमार्ग. 7. T. & Ch add विज्ञायते. 8. T. & Ch. ib. . 9. T. शेष for अशेष.