________________ 88 अभिधर्मसमुच्चयभाष्यम् प्रग्रहप्रधानाभिसंस्काराभ्यामुत्पन्नलयौद्धत्यपरिवर्जनान्निरुपक्लेशशमथादिनिमित्ता. नुकरणा'च्चेति // [Ch. 740B] संक्षेपनिदानं विपश्यनारहितस्य कौसीद्यमुखेन लयः / -3 विक्षेपनिदानमशुभसंज्ञारहितस्यौद्धत्यमुखेन संप्रग्रहः। संक्षेपः स्त्याननिमित्त मुखेनान्तःसंकोचः / विक्षेपः शुभनिमित्तानुसारमुखेन विषयेषु [T. 79B] विसारः / पालीनत्वानुकूला भावना प्रत्यवेक्षणानिमित्तं निश्रित्य धर्मविपश्यना / अविक्षेपानुकूला ऽशुभत: केशादिद्रव्यप्रत्यवेक्षा। तदुभयानुकूला ऽऽलोकसंज्ञा / एतच्च यथाक्रममधिकृत्योक्तं भगवता-नच मे छन्दोऽतिलीनो भविष्यति, नातिप्रगहीतः, नाध्यात्म संक्षिप्तः. न बहिर्धा विक्षिप्तः, पश्चात्पूर्व संज्ञी भविष्यति' ऊर्ध्वमधःसंज्ञी च, विवृतेन चेतसाऽपर्यवनद्धन सप्रभाससहगतं चित्तं भावयिष्यामि , [Ms. 81A] न च मेऽन्धकारायत्तत्वं भविष्यति चेतस इति // (v) फलं यथेष्टमृद्धयादिगुणनिष्पादनात् / / 693 (i) [As. p. 74] इन्द्रियाणां चत्वार्यसत्यान्यालंबनम्, सत्याभिसमयप्रयोगसंगृहीतत्वेन तदाकारत्वात् / / (v) फलं तदाधिपत्यादचिरेण कालेन दर्शनमार्गस्योत्पादः तस्मिन्नेव च काले निर्वेधभागीयभजनं च संतानस्य / / 594 (i) बलानामालंबनादिकमिन्द्रियैः [Ch. 740C] समानम् / / (v) फले तु विशेषः / तथाह्येषां तच्च यथोक्तम्-आश्रद्ध्यादिविपक्षनिर्लेखश्चाधिक इत्यत एवैषां तुल्यानामालंबनस्वभावादिकानामप्यनवमृधतार्थविशेषेण बोधिपक्षान्तर[T. 80A]त्वम् // 595 (i) बोध्यङ्गानामालंबनं चतुर्णामार्यसत्यानां यथाभूततेति परमार्थों विशुद्धयालंबनमित्यर्थः / (ii) स्वभाव: स्मृत्यादयः सप्त धर्माः / तत्र (a) स्मृतिः 1. T. अनुवर्तनात् for अनुकरणात्. 2. T. & ch. add. छन्दादीनां पुनः संक्षेपविक्षेपनिदानसहगता पविर्जनादिभावना / तत्र. 3. I. & Ch. मिद्ध for निमित्त. 4. Ch. adds भावना. 5. Ch. ib. 6. Ms. पुनः for पूर्व. 7. Ms. °ष्यामति for °ष्यति. 8. Cf. DN. III p. 223; Cf. Um. IV. 51 & 57. 9. T. & Ch. तत्फलं. 10. T. & Ch. निर्लेखादधिक.