________________ في सत्यविनिश्चयः औद्धत्योपक्लेशे चोत्पन्ने प्रत्यासंक्षेपमुखेन चित्तं धारयति तदा वीर्घमारमत इत्यु. च्यते / अत एव लयौद्धत्यापकर्षणोपायसंदर्शनार्थमनन्तरमाह [As p. 73] चित्तं प्रगृह्णाति प्रदधातीति // (v) फ[T. 78B]लं प्रथमद्वितीययोः सम्यकप्रहाणयोरशेषविपक्षहानिः, ताभ्यां यथायोगमुत्पन्नानुत्पन्नपापकाकुशलधर्मप्रहाणात् / तृतीयस्य प्रतिपक्षप्रतिलम्भः, तेनानुत्पन्नकुशलधर्मोत्पादनात् / चतुर्थस्य प्रतिपक्षवृद्धिः, तेनोत्पन्न कुशलधर्मविपुलतापादनादिति / / 692 (i) ऋद्धिपादालंबनं निष्पन्नेन समाधिना यत्करणीयमृद्धयादिकं कृत्यम् // (iii) छन्दसमाधिर्यत् सत्कृत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रतां [Ch. 740A] तीव्र [Ms. 80A]ण छन्देन तीव्रणादरेण प्रयोगः सत्कृत्यप्रयोग इति कृत्वा / वीर्यसमाधिर्यत्सातत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् / तद्वीर्यमित्युच्यते यन्नित्यं प्रयुज्यत एव न कदाचिन्न प्रयुज्यते / चित्तसमाधिर्यत्पूर्वजन्मान्तरे समाधिभावनामागम्य तत्परिपुष्टबीजत्वाच्चित्तस्य स्वरसेन समाध्यनुकलपरिणामे सति स्पृशति चित्तस्यैकाग्रताम् / अपि खलु ऋद्धिपादाभिनिर्हारयोनिदर्शनार्थमेव सम्यक्प्रहाणभावनायां छन्दं जनयतीत्येवमादिनिर्देशो वेदितव्यः। चित्तं प्रदधाति प्रगृह्णातीत्येषा चात्रं पाठानुपूर्वी वेदितव्या। तत्र चित्तसमाधिर्यच्चित्त प्रदधत् स्पृशतीति प्रत्यात्म चित्तमेव चित्तं धारयन् शमयन्नभिसंक्षिप[T. 79A]नधिगच्छतीत्यर्थः / मीमांसासमाधिर्यच्चित्तं प्रगृह्णनिति धर्मविपश्यनामुखेन चित्तमुत्तापयतीत्यर्थः // (iv) भावना छन्दादीनामष्टानां प्रहाणसंस्काराणामभ्यासः। ते पुनरष्टौ प्रहाणसंस्काराश्चतुर्धा क्रियन्ते / तद्यथा (a)व्यावसायिकश्छन्दव्यायामश्रद्धाः / तत्र छन्दो [Ms. 80B] व्यायामस्याश्रयः / छन्दस्य पुनः श्रद्धा निमित्तम् / तथाहि यो येनार्थी भवति तत्प्राप्त्यर्थं व्यायच्छते / अथित्वं च नान्तरेण तदस्तित्वाद्यभिसंप्रत्यमिति / (b) अनुनाहिकः प्रस्रब्धिः, तया कायचित्तानुग्रहकरणात् / (c) औपनिबन्धिकः स्मृतिसंप्रजन्ये, आलंबनासंप्रमोषण चित्तस्यकानावस्थानात्, तत्प्रमादे च सति परिच्छेदात् यथाक्रमम् / (d) प्रातिपक्षिकश्चेतनोपेक्षे, चित्त__ 1. Ms. °यंमृद्वा° for °यमृद्धया. 2. Ms. द्धा. 3.."3. "स्यैकाग्र---लयः" is in the bottom margin of Ms. The margi nal passa ge is inserted here following the Chinese & Tibetan Versions.