________________ अभिधर्मसमुच्चयभाष्यम् विप्रतिसारोऽभिक्रमप्रतिक्रमादिष्वसंप्रज्ञानचारिणः शिक्षाव्यतिक्रमपूर्वः पश्चात्तापः / निक्षिप्तधुरता प्रमाददोषेण यथारम्भं कुशलपक्षप्रयोगान्ता निर्वाह इति / / (v) फलं यथाक्रमं स्मृत्युपस्थानानां शुचिसुखनित्यात्मविपर्यासप्रहरणम्, अशु[भ] भावना[तः], यत्किचित् वेदितमिदमत्र दुःखस्येति ज्ञानात्, आश्रयालंबनादिभेदैः प्रतिक्षणं विज्ञानस्यान्यथावगमात्, निर्व्यापारसंक्लेशव्यवदानधर्ममात्रपरीक्षणाच्चेति // पुनरेषां यथाक्रमं चतुःसत्यावतारः फलम् / (a) का[Ms. 79A]यस्मृत्युपस्थानेन दुःखसत्यमवतरति, संस्कारदुःखतालक्षणेन दौष्ठुल्येन प्रभावितत्वात् कायस्य / तथाहि तत्प्रतिपक्षभूता प्रस्रब्धिः काय एव विशेषेणोत्पद्यत इति / (b) वेदनास्मृत्युपस्थानेन समुदयसत्यमवतरति, सुखादिवेदनाधिष्ठानत्वात् संयोगादितृष्णायाः / (c) चित्तस्मृत्युपस्थानेन निरोधसत्यमवतरति, निरात्मकं विज्ञानमात्रं न [T. 78A] भविष्यतीति पश्यत आत्मोच्छेदाशङ्कामुखेन निर्वाणोत्रासाभावात् / (d) धर्मस्मृत्युपस्थानेन मार्गसत्यमवतरति, विपक्षधर्मप्रहाणाय प्रतिपक्षधर्मभावनादिति / पुनरेषां कायवेदनाचित्तधर्मविसंयोगः फलं यथाक्रम वेदितव्यम्, तद्भावनया कायादिपक्षदोष्ठुल्यापगमादिति / / . 691. (i) [Ch. 739 C] सम्यक्प्रहाणानां प्रथमस्यानुत्पन्नो' विपक्ष आलंबनम्, तेनानुत्पन्न पापकाकुशलधर्मानुत्पादाय छन्दजननात् / द्वितीयस्योत्पन्नो विपक्षः। तृतीयस्यानुत्पन्नः प्रतिपक्षः / चतुर्थस्योत्पन्न" आलंबनमिति यथासूत्रं योजयितव्यम् // . (iv) छन्दं जनयतीत्येवमादिभिः [Ms. 79 B] साश्रया वीर्यभावना परिदीपिता। अत्राश्रयश्छन्दः, तत्पूर्वकत्वादुद्योगस्य / यदा शमथादिनिमित्तमनस्कारेण निरपेक्षालंबनं केवलं प्रतिपक्षं भावयति तदा व्यायच्छत इत्युच्यते। यदा तु लयोपक्लेशे10 उत्पन्ने11 तदपकर्षणार्थं प्रसदनीयादिमनस्कारः चित्तमुन्नामयति, 1. Ms. °गद्य° for गान्ता. 2. मात्र is given just below धातु which is corrected as मात्र. 3. T. & Ch. उत्पन्नो for अनुत्पन्नो Cf. Sphuta. p. 690. 4. T. & Ch. उत्पन्न for अनुत्पन्न. 5. T. & Ch. प्रहाणाय for अनुत्पादाय. 6. T. & Ch. अनुपत्नो for उत्पन्नो. 7. Ch. & T. add प्रतिपक्ष. 8. . Ms. श. 9. T. drops निरपेक्षालंबनं. 10. Ms. श. 11. Ms. न.