________________ 83 सत्यविनिश्चयः 5 86H. विमुक्तिमार्गो येन नामाश्रयपरिवृत्ति प्रत्यात्म [म]नुभवति / 586I. विशेषमार्गस्तदूर्वावशेषक्लेशप्रहाणं कुर्वतो ये प्रयोगानन्तर्यविमुक्तिमार्गाः। [Ch. 738A] अपरः पर्यायऽविशेषमार्ग[T. 75A]स्तस्य क्लेशप्रहाणप्रयोगमध्युपेक्ष्य सूत्रादीन् धर्माश्चिन्तयतः, पूर्वचिन्तिताधिगतधर्मप्रत्यवेक्षणाविहारेण वा विहरत: समापत्त्यन्तरं वा समापद्यमानस्य यो मार्गः / पुनरभिज्ञादीन् वैशेषिकान् गुणानभिनिहरतस्तैर्वा विहरतो यो मार्गः // ___ इत्येवं भावनामार्ग विस्तरेण निर्दिश्य तदनुषंगेण मार्गभावना[Ms. 76A] वर्ण्यते // ___887. चतुर्विधा मार्गभावना सम्यक् प्रहाणानधिकृत्य यथायोगम् / तत्र (i) प्रतिलम्भाय भावना प्रतिलम्भभावना, तयाऽलब्धकुशलधर्मप्रतिलम्भात् / (ii) निषेवण मेव भावना निषेवण भावना, लब्धकुशलधर्माभ्यसनात् / (iii) निर्धावनाय भावना निर्धावनभावना, समुदाचारावस्थाकुशलधर्मनिर्वासनात् / (iv) प्रतिपक्षस्य भावना प्रतिपक्षभावना, अनागताकुशलधर्मानुत्पत्तिधर्मतापादनात् // . [As: p. 71] अपरः पर्यायः- (i) मार्ग* उत्पद्यमानः स्वां वासनां स्थापयति [सा] वासना प्रतिलम्भभावना, ततस्तदन्वयानामुत्तप्ततरापत्तेः / (ii) अस्यैव मार्गस्य संमुखीभावोऽभिनिषेवणभावना। (iii) तेन स्वविपक्षदौष्ठुल्यनिरोधनानिर्धा वनभावना। (iv) आश्रयस्य परिवृत्तत्वादायत्यामनुत्पत्तिधर्मतायामवस्थाप'नं प्रतिपक्षभावना। पुनः प्रतिपक्षस्य विदूषणादिकः चतुर्विधः प्रभेदो वेदितव्यः / [Ch. 738 B] तत्र (a) [T. 75B] विदूषणाप्रतिपक्षः सास्रवेषु संस्कारवादीनवदर्शनम्, तेन रोगगण्डादिभिराकाररुपादानस्कन्धदूषणात् / (b) प्रहाण[Ms .76 B] प्रतिपक्षः प्रयोगानन्तर्यमार्गाः, तैः क्लेशप्रहाणात् / (c) आधारप्रतिपक्षो विमुक्तिमार्गाः, तैः प्रहाणप्राप्तिसंधारणात् / (d) दूरीभावप्रतिपक्षस्तदुपरिमो मार्गः, तेन पूर्वप्रहीणक्लेशदूरीकरणात् / / -688. पुनर्बोधिपक्ष्यादिभेदेनकादशविधो मार्गो व्यवस्थाप्यते / तद्यथा (i) वस्तुपरीक्षामार्गः स्मृत्युपस्थानानि, आदितस्तेनाशुभादिभिराकारः कायवेदना 1. Ms. inserts न. 2. Ms. न. 3. Ms. न. . 4. T. आर्यमार्ग. 5. Ms. °वेष° for षेव. 6. Ms. नि. Ms.व. -