________________ अभिधर्मसमुच्चयभाष्यम् चित्तधर्मबस्तुपरीक्षणात् / (ii) व्यावसायिको मार्गः सम्यक्प्रहाणानि, तथा सर्वाणि वस्तूनि परीक्ष्यानेनावरणप्रहाणाय वीर्यारम्भात् / (iii) समाधिपरिकर्ममार्ग ऋद्धिपादाः, तथापरिशोधितावरणस्यानेन छन्दवीर्यचित्तमीमांसामुखैः समाधेः कर्मण्यतापादनात् / (iv) अभिसमयप्र[]योगिको मार्ग इन्द्रियाणि, तथाकृतसमाधिपरिकर्मणोऽनेनार्यमार्गसमुदागमायाधिपतिभूतोष्मगतोल प्रयोगात् / (v) अभिसमयश्लिष्टो मार्गो बलानि, तथाधिपत्यप्राप्तस्यानेनानन्तरं सत्यप्र[Ms. 77 A]तिवेधा याश्रद्धा[T. 76 A]दिविपक्षानभिभूतक्षान्त्यग्रधर्मप्रयोगात् / (vi) अभिसमयमार्गो बोध्यङ्गानि, तेनादितः प्रत्यात्म तत्त्वाभिसंबोधात् / (vii) विशुद्धिनर्याणिको मार्ग आर्याष्टाङ्गो मार्गः, तदूर्ध्वं तेन भावनाप्रहातव्यक्लेशप्रहाणाय विशुद्धये निर्याणादिति / अत एवैषां वोधिपक्षाणामेवानुपूर्वी वेदितव्या / (viii) निश्रयेन्द्रियभिन्नो मार्गः चतस्रः प्रतिपदः / तत्र दुःखा प्रतिप4 [Ch. 738C]दनागम्यारूप्यनिश्रिता यथाक्रमं शमथविपश्यनामान्द्यात् / सुखा ध्याननिश्रिता युग नद्धवाहित्वात् / धन्धाभिज्ञा द्वयोरप्यनयोर्दुःखसुखनिश्रययोम॑द्विन्द्रियाणाम् / क्षिप्राभिज्ञा तयोरेव तीक्ष्णेन्द्रियाणामिति / (ix) शिक्षा" त्रयपरिशोधनो मार्गः चत्वारि धर्मपदानि / तत्रानभिध्याऽव्यापादमधिशीलं शिक्षायाः परिशोधनम्, अननुनयाप्रतिघमुखेन शिक्षापदाखण्डनात् / सम्यक्स्मृत्याधिचित्तं शिक्षायाः परिशोधनम् , आलंवनासंमोषे सति चित्तसमाधानात् / सम्यक्समाधिनाधिप्रशं शिक्षायाः परिशोधनम्, समाहितचित्तस्य यथाभूतज्ञा[Ms. 77B[नादिति / (x) सर्वगुणा[T. 77 B]भिनिरिको यो मार्गः शमथविपश्यना, ततः सर्वलोकिकलोकोत्तरगुणाभिनिष्पत्तेः। (xi) मार्गसंग्रहमार्गस्त्रीणीन्द्रियाणि, तत्रानाज्ञातमाज्ञास्यामीन्द्रियेण प्रयोगदर्शनमार्गयोः संग्रहः, प्राज्ञेन्द्रियेण भावनामार्गस्य, माज्ञातावीन्द्रियेण निष्ठामार्गस्येति / / 89. पुनर्बोधिपक्ष्याणां धर्माणां पञ्चभिः प्रकारैः व्यवस्थानं वेदितव्यम्आलम्बनतः स्वभावतः सहायतो भावनातो भावनाफलतश्च // $90. (i) तत्र स्मृत्युपस्थानानामालंबनं यथाक्रम कायो वेदना चित्तं धर्माः। किमर्थं पुनरेतदेवमालंबनं व्यवस्थाप्यते। यस्माद्विपर्यस्तबुद्धयो 1. Ms. दा. 2. Ms पूर्व for ऊर्ध्व. 3. Ms. ध for वेधा. 4. Ms. पा. 5. Ms. स. 6. Ms. adds वत्: 7. Ms. adds परि. Cf. As (G), p. 34. 8. As (G). omits यो. T. योगो or योगी for यो. 9. Ms. inserts a syllable appearing as या. 10. T. & Ch. एव for एवम्.