________________ 82 अभिधर्मसमुच्चयभाष्यम् वा प्रारूप्य'-शान्तविमोक्षसमापत्ता सर्वः स रूपवीतराग इति / प्रथमा कोटि:अनागम्यं निश्रित्य रूपवीतरागः / द्वितीया कोटिः-1-चतुर्थध्यानलाभी आर्य आर्यो'पपत्त्याऽनर्थी प्रहाणमार्ग निराकृत्य विशेषमागं निश्रित्यारूप्यशान्तविमोक्षसमापत्ता। तृतीया कोटिः स एव वैराग्यार्थी प्रहाणमार्ग निश्रित्यारूप्यशान्तविमोक्षसमापत्ता / चतुर्थी-एतानाकारान् स्थाप[Ms. 75A]यित्वा / प्रारूप्ये पपन्नानां कस्मान्न संमुखीभवति। शान्तेन विहारेण विहर्तुकामा आर्या मनुष्येष्वेनामभिनिहत्य संमुखीकुर्वन्ति / आरूप्येषु तूपपन्नास्तेऽप्रय[T. 74B] त्नेनैव वैपाकिकैः परमशान्तैः विमोक्षविहारैविहरन्तीत्यतस्तत्संमुखीकरणार्थं न पुनः प्रयत्नमारभन्त इति / / 686C-5 86E. [Ch. 737C, As. P. 70] मदुमध्याधिमात्रो मार्गः प्रत्येकं पुनः मृद्वादिभिस्त्रिभिः प्रकारैभित्त्वा नवप्रकारो व्यवस्थाप्यते, भावनाहेयानां क्रमेण प्रहाणज्ञापनार्थम् / किं पुनः कारणं मृदुमृदुना मार्गेणाधिमात्रः क्लेशः प्रहीयते / स ह्यत्यर्थः विपन्नह्रीव्यपत्राप्या लज्जिनः संताने समुदाचरति सूपलक्षश्चासौ सुपरिच्छेदस्तस्मादसौ स्थूलमलवदल्पेनापि प्रतिपक्षणापनीयते / यस्त्वयं दुष्परिच्छेदसमुदाचारः सूक्ष्मलीन:' संताने मृदुमृदुक्लेश: सूक्ष्ममलवन्महता प्रतिपक्षबले [Ms. 75B] नापनीयत इत्यदों विपक्षप्रकारविपर्ययेण प्रतिपक्षप्रकारव्यवस्थानं वेदितव्यम् // 86F. प्रयोगमार्गो येन मार्गेण भाव्यमानेन प्रत्येकमधिमात्राधिमात्रादिक्लेशप्रकारादि जातिपक्षस्य दौष्ठुल्याङ्गस्यापगमात्क्रमेणाश्रयः परिवर्तते स भावनामार्गे प्रयोगमार्ग इत्युच्यते // $ 86G. यस्य त्वनन्तरं तत्प्रकारक्लेशजांतितत्पक्षदौष्ठुल्या अवशेषापगमात्तेन दौष्ठुल्येन निदौठुल्य आश्रयः परिवर्तते स आनन्तर्यमार्गः / / 1-1. "शान्तं द्वितीया कोटिः" is in the top margin of Ms. 2. T. and Ch. आरूप्य for आर्य, and that seems appropriate. 3. Ms. म्भन्त for भन्त. 4. Ms. °प्येष्व• for °प्या. 5. Ms. वा. 6. Ch. adds दुरुपलक्षः 7. Ms. सूक्ष्मालीनः for सूक्ष्मलीनः T. only सूक्ष्म. Ch. has a word meaning "concealed". 8. Ms. appeared to read क्लेशमूलीन for क्लेशः. 9. T. & Ch. omit this आदि. 10. Ms. वि.