________________ सत्यविनिश्चयः 81 (3) [Ch. 737A, As. p. 69] मात्राव्यवस्थानं ध्यानानां तावन्मृदुमध्याधिमात्रपरिभावितत्वात् / प्रत्येकं त्रिधा ध्यानोपपत्तिः फलं भवति / तद्यथा ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माण' इत्येवमादि यथापूर्वमुक्तम् / आरूप्येषु तु विमानस्थानान्तरसंनिवेशासंभवादेवमुपपत्ति भेदो न व्यवस्थाप्यते / अपि तु तेषामप्यस्ति मृद्वादिपरिभावितानामुपपत्तावुच्चनीचता आयुरादिविशेषेण, होन[Ms. 74A]प्रणीतता च क्लिष्टाक्लिष्टताबाहुल्यविशेषेणेति // (4) संज्ञाकरणव्यवस्थानं चतुर्थध्यानप्रभेदानां समाधीनामसंख्येयान्यचिन्त्यानि च नामानि / तथाहि यावतः प्रथमध्यानसंगृहीतान् समाधीन् बुद्धा [T. 73B] भगवन्तो बोधिसत्त्वाश्च महाप्रभावप्राप्ताः समापद्यन्ते, तेषां समाधीनां श्रावकाः प्रत्येकबुद्धाश्च नामान्यपि न जानन्ति / कुतश्चैषां संख्यां ज्ञास्यन्ति समापत्स्यन्ते वा। यथा निर्दिष्टं प्रज्ञापारमितायाम -“साधितं समाधिशतम्" / एवमन्येष्वपि तेषु तेषु महायानसूत्रेष्विति / / (iv) कथं विशुद्धितः / प्रान्तकोटिका ध्यानारूप्या विशुद्धिरित्युच्यते, वैशेषिकगुणाभिनिर्हाराय निकामला [भा] दिभिः कर्मण्यताप्रकर्षनयनात् / / 586B. लोकोत्तरमार्गो भावनामार्गेऽष्टी दुःखा[दिधर्मा]न्वयज्ञानानि यथा दर्शनमार्गे निर्दिष्टानि / तत्संप्रयुक्तश्च समाधिरनागम्यसंगृहीतः प्रथमं ध्यानं यावदाकिंचन्यायतनम् / नवसंज्ञानासंज्ञायतनम* परिस्फुटं[Ch. 737B] संज्ञाप्रचारतया परमपटुप्रचारस्यार्यमार्गस्यासंनिःश्रयत्वादेकान्तेन लौकिकं वेदितव्यम् / [Ms. 74B] अत एव च तत्संज्ञामान्द्यादालम्बना निमित्तीकरणार्थेनानिमित्तमित्युच्यते। कुतः पुनरेतत् ज्ञायते नवसंज्ञानासंज्ञायतने आर्यमार्गो नास्तीति / यस्मादुक्तं भगवता "यावदेव संज्ञासमापत्तिस्तावदाज्ञाप्रतिवेध" इति / निरोधसमा[T. 74A]पत्तिर्लोकोत्तरा, आर्यमार्गपृष्ठलभ्यत्वात् / मनुष्येष्वभि[नि]हियते उत्पाद्यत आदित इत्यर्थः, पूर्वोत्पादितायाः पश्चात्संमुखोभावो मनुष्येषु वा तस्मिन्नेव जन्मनि रूपधातौ वा उपपद्य / कथमारूप्यलाभिनो रूपधातुवीतरागस्यार्यश्रावकस्य रूपधातावुपपत्तिः / नावश्यं रूपधातुवीतराग एवाऽऽरूप्यं समापद्यते / अत एवात्र चतुष्कोटिकं भवति-यो रूपवीतरागः सर्वः' स आरूप्यशान्तविमोक्षसमापत्ता, यो 1. Ms. महाब्राह्मण for महाब्राह्मणः. - 2. Ch. adds फल. 3. Ms. inserts ना. 4. Ms. त्वं... 5. Ms. inserts another नि. 6. Ms. प्यात्. 7. Ms. त्वः.