________________ 80 अभिधर्मसमुच्चयभाष्यम् यथाक्रमम् / चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश्च प्रतिपक्षाङ्गम्, ताभ्यां सुखप्रतिपक्षणात् / अदुःखासुखा वेदनाऽनुशंसाङ्गम्। चित्तैकाग्रता तदुभयाङ्गमिति / / __ (2) कथं पुनः प्रथमं ध्यानं समापद्यमानस्य सप्त मनस्कारा भवन्ति / (a) येन समाहितभूमिकेन मनस्कारेण कामेष्वादीनवादिदर्शनेनौदारिकलक्षणं प्रतिसंवेदयते / तदभावाच्च प्रथमध्याने शान्तलक्षणम् / अयमुच्यते लक्षणप्रतिसंवेदनीयं मनस्कारः, [Ch. 736C] स च श्रुतचिन्ताव्यवकीर्णो वेदितव्यः / (b) तदुवं श्रुतं चिन्तां चातिक्रम्यकान्तेन भावनाकारेण तदौदारिकशान्तलक्षणनिमित्तालंबनां शमथविपश्यनां भावयन् पुनः पुनर्यथापर्येषिता[T. 72B] मौदारिकशान्तता- धिमुच्यते इत्ययम[1] धिमोक्षिकः / (c) तदभ्यासात्तत्प्रथमतः प्रहाणमार्गसहगतो मनस्कारः प्राविवेक्यः, तेनाधिमात्रक्लेशप्रकारप्रहाणात्तत्पक्षदौष्ठुल्यापगमाच्च / (d) स योगी तदूर्ध्व प्र[Ms. 73A] [हा]णारामो भवति प्रहाणेऽनुशंसदर्शी परीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण संप्रहर्षयति यावदेव स्त्यानमिद्धौद्धत्योपशमाय / अयं रतिसंग्राहकः / (e) तस्यैवं सम्यक्प्रयुक्तस्य कुशलपक्षप्रयोगोपस्तब्धत्वात् कामावचरक्लेशपर्यवस्थानासमुदाचारे सति तत्प्रहीणापहीणतावगमार्थं तदुत्पत्त्यनुकूलशुभनिमित्तमनस्कारेण प्रत्यवेक्षणं मीमांसामनस्कारः / (f) तस्यैवं मीमांसाप्रतिपक्षं भावयतः तावत्का. लिकयोगेन सर्वकामावचरवलेशविसंयोगाय प्रथमध्यानप्रयोगपर्यवसानगतः प्रतिपक्षमनस्कारः प्रयोगनिष्ठः / (g) तदनन्तरं मौलप्रथमध्यानसहगत: प्रयोगनिष्ठाफल इति / तत्र लक्षणप्रतिसंवेदना प्रहातव्यं प्राप्तव्यं च सम्यकपरिज्ञाय प्राणाय प्राप्तये च चित्तं प्रणिधते। आधिमोक्षिकेन तदर्थ सम्यकप्रयोगमारभते / प्राविवेक्येनाधिमात्रान क्लेशान जहाति / रतिसंग्राहकेण मध्यं क्लेश[Ms. 73B]प्रकारं जहाति / मीमांसकेन प्राप्तिनिरभिमानता[T. 73A]यां चितमवस्थापयति / प्रयोगनिष्ठेन मदूं क्लेशप्रकारं जहाति / प्रयोगनिष्ठाफलेन एषां मनस्काराणां सुभावितानां भावनाफलं प्रत्यनुभवति / यथा प्रथमध्यानसमापत्तये सप्त मनस्कारा एवं यावन्नवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं योजयितव्याः। औदारिकलक्षणं पुनः सर्वास्वधोभूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यम्-दुःखतरविहारिताऽप्रशान्तविहारितया, अल्पायुस्कतरता च तद्विपर्ययेणोलभूमेः शान्तलक्षणं वेदितव्यम् / 1. As (G). संवेदी. ___ स्तब्धत्वात् is not clearly legible. 3. Ms. has additional मीमांसा. Ch. has पुनः पुनः. 4. T. drops सहगत. 5. T. तदधो for तदर्थ. Ch. supports Ms.