________________ सत्यविनिश्चयः [न्या] रूप्याश्च / ते पुनानारूप्याः संक्लेशतो व्यवदानतो व्यवस्थानतो विशुद्धितश्च वेदितव्याः // (i) कथं संक्लेशतः / चत्वार्यव्याकृतमूलानि तृष्णा दृष्टिर्मानोऽविद्या च, तैः संक्लिष्टचित्तानां क्लिष्टध्यानमुखेन रूपारूप्यावचरसर्वनिवताव्याकृतक्लेशोपक्लेशा[T. 71 B]वर्तनात् / तत्र तृष्णयाऽऽस्वादसंक्लेशेन संक्लिश्यते, प्रलब्धिसुखास्वादात् / दृष्ट्या दृष्ट्य त्तरध्यायितया संक्लिश्यते, ध्यानं निश्चित्य पूर्वान्तकल्पादिदृष्टिसमुत्थापनात् / मानेन मानोत्तर ध्यायितया संक्लिश्यते, तेन विशेषाधिगमेनोन्नतिगमनात् / अविद्यया विचिकित्सोत्तरध्यायितया संक्लिश्यते, तत्त्वा. प्रतिवेधेन मोक्षकामस्य तस्मिन्वि[Ms. 72 A] शेषाधिगमे मोक्षो न मोक्ष इति विचिकित्सोत्पादनात् / / (ii) कथं व्यवदानतः / शुद्धका ध्यानारूप्या लौकिका अपि कुशलत्वात्पर्यवस्थानमलापगतत्वेन व्यवदाता इत्युच्यन्ते / / (iii) कथं व्यवस्थानतः / ध्यानानां तावच्चतुर्धा व्यवस्थानम्, अङ्ग. समापत्तिमात्रासंज्ञाक रणभेदात् / आरूप्याणां विधाऽङ्गवर्जः / / (1) rCh. 736 B] किं पुनरधिकृत्य ध्यानेषु वितर्कादय एवाङ्गत्वेन व्यवस्थापिताः सत्स्वन्येषु धर्मेषु / तावद्भिः प्रतिपक्षानुशंसतदुभयाश्रयाङ्गपरिसमाप्तेः। प्रथमे तावद्धयाने वितर्को विचारश्च प्रतिपक्षाङ्गम्, ताभ्यां कामव्यापादविहिंसावितर्कादिप्रहाणात् / प्रोतिः सुखं चानुशंसाङ्गम्, वितर्कविचाराभ्यां प्रतिप[T. 72 A]क्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात् / चित्तैकाग्रता तदुभयनिश्र याङ्गम्, समाधिसंनिश्रयवलेन -वितर्कादिप्रवृत्तेरिति / तथा' द्वितीये ध्यानेऽध्यात्मसंप्रसादः प्रतिपक्षाङ्गम्, तेन वितर्कविचारप्रतिपक्षणात् / प्रोतिसुखे चित्तैकाग्रता च शेषे अङ्गे पूर्ववत् / तृतोये ध्या[Ms. 72 B]ने उपेक्षा स्मृतिः संप्रजन्यश्च प्रतिपक्षाङ्गम्, तैः प्रीतिप्रतिपक्षणात् / सुखं चित्तैकाग्रता च शेषे अङ्गे 1: Ms. . 2. Ms. त्व. 3. Ms. adds न. 4. Ms. inserts स. 5. Ms. का. 6. Ms. स्र. 7-...-7 Here we have followed T. & Ch. which is confirmed by Sphutartha, p. 676 (lines 16-17). But our Ms. though ___illegible, appears to read वितर्काद्यप्रवृत्तेश्च / 8. Ms. का.