SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 78 अभिधर्मसमुच्चयभाष्यम् दितो दर्शनमार्गाख्या लोकोत्तरां निष्प्रपञ्चावस्था प्रत्यात्ममनुभवन्ति (iv) परिपूरितः . तवं यामाश्रयपरिवृत्ति [T. 70B] परिपूर्य[या] [Ms. 71A]. वदधिगमनिष्ठां प्राप्नुवन्ति / ते पुनरधिगमनिष्ठाप्राप्तास्तत्पृष्ठलब्धेन ज्ञानेन मार्गसत्यं व्यवस्थापयन्ति / इत्येवमादि तच्च [तु] राकारं मार्गचक्र पुनःपुनरन्योन्याश्रयेण प्रवर्तत इति वेदितव्यम् / ____685D. यदुक्तं विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पद्यत इति तदर्शनमार्गमधिकृत्योक्तम्, तत्प्रथमत: सत्येष्वार्यप्रज्ञाचक्षुःस्वभावत्वात् / तत्र धर्मक्षान्तिभिर्विरजः, ताभिः क्लेशरजःप्रहाणात् / धर्मज्ञानविगतमलम्, तेषां प्रहाणतदावरणमलाश्रयोत्पादात् / पुनरनयोरेव क्षान्तिज्ञानावस्थयोर्यथाक्रम परिज्ञया प्रहाणेन च मार्गस्य विशुद्धतामधिकृत्य विरजो विगतमलं वेदितव्यम् // 685E. दृष्टे त्येवमाद्यपि दर्शनमार्गमेवाधिकृत्य वेदितव्यम्, विनेयानां सत्याभिसमयानन्तरं वचनात् / तत्र धर्मक्षान्तिभिर्दष्टधर्माः, ताभिस्तत्त्वप्रतिवेधात् / धर्मज्ञानः प्राप्तधर्माः, तैराश्रयपरिवृत्तिसाक्षात्करणात्। अन्वयक्षान्तिभिविदितधर्माः, ताभिरार्यधर्मान्वय एष इति तदुभयसंवेदनात् / अन्वयज्ञानः पर्यवगाढधर्माः, तैर्यावज्ज्ञेयं परिसमापना[T. 71A]त् / सर्वै स्तीर्णकांक्षः सर्वैः क्षान्तिज्ञानः, [Ms. 71B] लोकोत्तरेण मार्गेण फलाधिगमे सति दीर्घरात्रमभिकांक्षिते स्वाधिगमेऽसंदेहात्। 5-तीर्णविचिकित्सः परािधिगमे सर्वैरिति वर्तते, पराधिगमे तदवस्थस्या न्येषामपि विशेषाधिगमं प्रति विमत्यभावात् / अपरप्रत्ययो मार्गभावनायां परोपदेशमन्तरेणापि [Ch. 636A] स्वयंकुशलत्वात् / अनन्यनेयोऽवेत्य प्रसादप्रतिलभेन शास्तु:-5 शासनेऽ[As. p. 68]न्यतीर्थैर्जन्मान्तरेऽप्यहार्यत्वात् / धर्मेषु वैशा"रद्यप्राप्तोऽधिगममारभ्य परिप्रश्नधर्मेषु पापेच्छाभिमानिकवदवलीनचित्तताभावात् / / 686A. भावनामार्गो लौकिको मार्गः / तत्र लौकिको मार्गो ध्याना1. Ms. च्यु. 2. T.& Ch. "तदावरणमलप्रहाणाश्रयोत्पादात्" which appears to be correct. 3. T. & Ch. दृष्टधर्मे. 4. T. omits सर्वः. 5....5. "तीर्ण..."शास्तुः" is in the bottom margin of Ms. 6. T. तदध्वनि, but Ch. is as our Ms. 7. Ms. सा. 8. T. Chapter VI. 9. For भावनामार्गे लौकिको माग: T. (& also Chi) reads भावनामार्ग आर्यश्रावकः सत्येषुऽभिसमययुक्तः। तदूवं शेषसंयोजनप्रराणाय प्रतिपन्नः (?) यो लौकिकादिमार्गः॥
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy