________________ सत्यविनिश्चयः 5 85 B. प्रभेदशः पुनदर्शनमार्गः सत्येषु षोडशधर्मान्वयक्षान्तिज्ञानानि / तत्र दु:खे धर्मज्ञानक्षान्तिः प्रयोगमार्गे दुःखसत्याधिकारिकसूत्रादिधर्मविचारणाज्ञानं योनिशो[T. 69 B]मनस्कारसंग्रहीतमधिपतिं कृत्वा स्वसंतानिकदुःखसत्ये तत्तथताप्रत्यक्षानुभाविनी लोकोत्तरा प्रज्ञा सम्यग्दृष्टिस्वभावोत्पद्यते यया दुःखदर्शनप्रहातव्यांस्त्रधातुकानष्टाविंशतिमनुशयान् प्रजहाति। तस्मादुच्यते दुःखे धर्मज्ञानक्षान्तिरिति / तया क्षान्त्या दुःखदर्शनप्रहातव्यक्लेशप्रहाणात् परिवर्तित आश्रये तदनन्तरं येन ज्ञानेन तामाश्रयपरिवृत्ति [Ms. 70 A] प्रत्यनुभवति तद्दुःखे धर्मज्ञानमित्युच्यते / [Ch. 735 B] एतच्चोभयमाद्यं क्षान्तिज्ञानमन्वयः सर्वेषां शैक्षाशैक्षाणामार्यधर्माणाम्, ततस्तेषां समुदागमात्। अतस्तदालंब्यान्वय एष आर्यधर्माणामिति प्रत्यात्म प्रत्यक्षानुभाविन्यनास्रवा प्रज्ञा दुःखे अन्वयज्ञानक्षान्तिः / तामन्वयज्ञानक्षान्तिं येन ज्ञानेन प्रत्यनुभवति तदन्वयज्ञानमित्युच्यते / [As. P. 67] लोकोत्तरस्य हि मार्गस्य द्वयं विषयः-तथता सम्यग्ज्ञानं च। तत्र धर्मज्ञानपक्षस्य मार्गस्य तथता विषयः / अन्वयज्ञानपक्षस्य सम्यग्ज्ञानम् / अत इदमुच्यते--धर्मज्ञानक्षान्तिज्ञान ह्यावबोधः, अन्वयक्षान्तिज्ञानाहकावबोध इति / यो भगवता षष्ठोऽ[नि]मित्तविहारी पुद्गल आख्यातः स एतेषु क्षान्तिज्ञानेषु वर्तमानो वेदितव्यः, सर्वनिमित्ता[T. 70 A]नुपलंभात् / त एते क्षान्ति [ज्ञान] संगहीताः षोडश चित्तक्षणा दर्शनमार्गः, तैरदृष्टपूर्वाणामार्यसत्यानां प्रत्येकं चतुभिर्दर्शनात् / न चात्र भावस्याभत्वा प्रादुर्भावमात्रं चित्त क्षणो वेदितव्यः / किं तहि यावता ज्ञेये [Ms. 70 B] ज्ञानोत्पत्तेः परिसमाप्तिर्भवति / तद्यथा दुःखं परिज्ञेयमित्येकश्चित्तक्षणः / एवं समुदयः प्रहातव्य इत्येवमादिः / यच्चैतद्दर्शनमार्गमारभ्य विस्तरेण विपंचितं व्यवस्थानमात्रं तत्सर्व वेदितव्यम्, प्रत्यात्ममेव वेदनोयत्वात् लोकोत्तराया अवस्थायाः / / .. 685C. सर्व हि मार्गसत्यं चतुभिः प्रकाररनुगन्तव्यम् - व्यवस्थान[Ch. 735C] तो विकल्पनतोऽनुभवतः परिपूरितश्च / तत्र (i) व्यवस्थानत., यथास्वमधिगमनिष्ठाप्राप्ता श्रावकादयस्तत्पुष्ठलब्धेन ज्ञानेन परेषां प्रापणनिमित्तं नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति, इत्यपि सत्येषु क्षान्तयो ज्ञानानी *त्येवमादि। (ii) विकल्पनतः, अभिसमयप्रयुक्ता लौकिकेन यथा. व्यवस्थानं विकल्पयतो यदभ्यस्य न्ति / (iii) अनुभवतः, तथाभ्यस्यन्तो यामा'. 1. T. तदुभयमन्वयः सर्वेषाम् for तदालंब्यान्वय एष Ch. is exactly like our Ms. 2. Ms. has additional त्यो. 3. Ms. has additional ल. 4. T.& Ch. add च. 5. T. & Ch. add ज्ञानेन. 6. Ms. स. . 7. Ms. माया for यामा.