________________ 76 अभिधर्मसमुच्चयभाष्यम् संस्कारदुःखतयाऽप्रशान्तलक्षणानामुपादानस्कन्धानां विसंयोगमधिकृत्य / (iii) . प्रणीतलक्षणं क्लेशदुःखविसंयोगात् स्वयं शुचिसुखस्वभावतामधिकृत्य / (iv) निःसरणलक्षणं नित्यहितस्वभावतामधिकृत्य, अपुनरावर्तनात् क्षेमत्वाच्च यथाक्रम हितं कुशल मिति शक्यत्वात् / / 582. मार्गसत्यं येन दुखं परिजानीत इत्येवमादि, सत्येष्वस्य कृत्याधिकारेण लक्षणनिर्देशो वेदितव्यः / पञ्चविधो मार्ग इति प्रभेदाधिकारेण / पञ्चप्रभेदः सपरिवारमार्गसत्याधिकाराद्वेदितव्यम् / / / 683. [Ms. 69A] तत्र संभारमार्गः [Ch. 734C] शीलादिको यस्य परिपूर्णत्वादुष्मगताद्यानुपूर्व्या सत्यदर्शनाय तदावरणप्रहाणाय च संतानस्य योग्यतां प्रतिलभत इति / यद्वा पुनरन्यदौपनिषदं कुशलमित्यविंप्रतिसारादिक वेदितव्यम् / / 684 (i) उष्मगतं प्रत्यात्म सत्येष्वालोकलब्धः समाधि: प्रज्ञा ससंयोग इति समाहितेन चित्तेन सत्याधिपतेयस्य सूत्रादिकस्य धर्मस्य मनोजल्पस्य मुखैरर्थसंप्रख्याने सति शमथश्च विपश्यना चोष्मगतमिति वेदितव्यम् / (ii) तद्वद्धिमूनिस्तदुपरि व्यवस्थाप[T. 69A]नार्थेन / (iii) क्षान्तिरे[As. p. 66] कदेशप्रविष्टानुसृतः समाधिरिति / कथमेकदेशप्रविष्टो भवति / एकान्तेन ग्राह्यभावलक्षणात् / कथमेकदेशानुसृतः ग्राहकाभावप्रतिवेधानुकूल्यावस्थानात् / (vi) लौकिकोऽग्रधर्मो यदन्तरमादितो लोकोत्तरो मार्गः / / , . 685 A. 'दर्शनमार्गो लौकिकाग्रधर्मानन्तरं निविकल्पश[Ch. 735 A]मथविपश्यनालक्षणो वैदितव्यः। समसमालंब्यालंबनज्ञानमपि तदिति तेन ग्राह्यग्राहकाभावतथताप्रतिवेधात् / प्रत्यात्ममपनीत [Ms. 69 B]सत्वसंकेतधर्मसंकेतसर्वतोऽपनीतोभयसंकेतालंबनधर्मज्ञानमपि तदिति / कथं प्रत्यात्ममपनीतसत्त्वसंकेतालंबनधर्मज्ञानम / तेन स्व[सन्ताने अात्मनिमित्ताविकल्पनात / कथं प्रत्यात्ममपनीतधर्म 'धमज्ञानम / तेन स्वसंतान एव रूपादिधर्मनिमित्ताविकल्पनात् / कथं सर्वतोऽपनीतोभयसंकेतालंबनधर्मज्ञानम् / सर्वत्राविशेषणात्म10. धर्मनिमित्ताविकल्प [नादिति / / - 2. 3. 4. 5. 6. Ms. ता. Ms. सु. Ms. दू. Ms, मू. Ms.. Ms. वृ. Ch. chapter I (4) of विनिश्चय. Ms. षे. Ms. नं. Ms. न्य. 8. 9. 10.