________________ सत्यविनिश्चयः कुशलाकुशलस्येष्टानिष्टो विपाकः सुगतिदुर्गत्योरिति चिन्त्यः, शक्यत्वात् सम्यग्दृष्ट्यादिगुणावाहनाच्च / अनेन कर्मणा सत्त्वानामात्मभावस्य वर्णसंस्थाना-दिप्रकारभेदवैचित्र्यमित्यचिन्त्यः, अशक्यत्वात् सर्वज्ञादन्यस्योन्मादादिदोषावाहनाच्च / [Ch. 732C] तदेव 'कर्म स्थानादिभिरचिन्त्यम्। [तत्र स्थानं] यत्र प्रदेशे स्थित्वा यत्कर्म कृत्वा-1 ग्रामे वा नगरे वेत्यादि / वस्तु यदधिष्ठानं सत्त्व[T. 66A]संख्यातमसत्त्वसंख्यातं वा / हेतुः कुशलाकुशलादेः कुशलाकुशलमूलानि यथायोगम्। विपाकस्तदेवात्मभाववैचित्र्यम्। बाह्यभाववैचित्र्याभिनिर्वर्तकं कर्माचिन्त्यम्, कीदृशेन खलु कर्मणा कण्टकादीनां तैक्ष्णादिकं कृतमिति लोकचिन्तानन्तर्भूतत्वात् / मणिमन्त्रौषधिमुष्टियोगप्रतिसंयुक्तं कर्माचिन्त्यम् / तत्र मणि. [प्रति] संयुक्तं चन्द्रकान्तादीनामुदक क्षरणादि / मन्त्रप्रतिसंयुक्त तदभिमन्त्रितानामदाहादि। औषधिप्रतिसंयुक्त तया गृहीतयाऽन्तर्धानादि / मुष्टियोगप्रतिसंयुक्तं तेन तेन मुष्टियोगेन ज्वरापगमादि / सर्वं च योगिनां प्रभावकर्माचिन्त्यम् / कथम् / ते चित्तप्रभावेन महापृथिवीं कम्पयन्त्याकाशेन वोत्पतन्तीत्येवमादि / बोधिसत्त्वानां वशिताभिर्यत् क्रियते कर्म तदचिन्त्यम् / तद्यथा (i) आयुर्वशितया बोधिसत्त्वा आयुःसंस्कारानधिष्ठा[Ms. 66B]य यावदिच्छन्ति तिष्ठन्ति / (ii) चित्तवशितया यथेच्छं समाधीन् समापद्यन्ते (iii) -परिष्कारवशितया -ऽप्रमेयमनर्धेयमुपकरणवर्षं सत्त्वानां वर्षन्ति / (iv) कर्मवशितयाऽन्यधातुभूमिगतियोन्यवस्थावेदनीयानि कर्माण्यन्यथा परिणामयन्ति / (v) उपपत्तिवशितया ध्या[T. 66B] नैरपि विहत्यापरिहीणा एव कामधातावुपपद्यन्ते / (vi) अधिमुत्तिवशितया पृथव्यादोनबादित्वेनाधिमुच्यन्ते / (viii) प्रणिधानवशितया यथेष्टं स्वपरार्थसंपत्तिकराण्यसंख्येयानि महाप्रणिधानान्यभिनिहार]न्ति / (viii) ऋद्धिवशितया सत्त्वानामावज "नार्थमप्रमेयमद्धिप्रतिहार्यं संदर्शयन्ति10 / (ix) ज्ञानवशितया धर्मार्थनिरुक्तिप्रतिभानानां प्रकर्षपर्यन्तं गच्छन्ति / (x) धर्मवशितया यथार्ह यावत् सर्वसत्त्वानामन्यान्यैर्नामपदव्यंजनकायैः सूत्रादीन धर्मान् व्यवस्थाप्य [hC. 733A] युगपच्चित्तपरितोषणे समर्था भवन्तीति // 1-...-1 "आदिप्रकार कृत्वा" is in the bottom margin of Ms. 2. T. adds कुशलादि... T. & Ch. omit कुशलाकुशलादेः. 4. Ch. adds प्रकारः नानाभेदाप्रमाणप्रकारः. 5. Ms. न 6.."6. Ch. drops "परिष्कार 'पपद्यन्ते". 7....7."अप्रमेय.. 'कर्मवशितया" is in the bottom margin of Ms. 8. T. एवं (?) 9. Ms, sia for asi. 10. Ms. ति. . 11. T. & Ch. ad सर्व.