________________ 74 अभिधर्मसमुच्चयभाष्यम् बुद्धानां बुद्धकृत्यानुष्ठानकर्माचिन्त्यम् / कथम् / अनाभोगप्रतिगता धर्मधात्वेकरसताप्राप्ता सर्व बुद्धा भगवन्तः सत्त्वानां यथा यदा यावत्कृत्यमनुष्ठातव्यं तत्सर्वमनुतिष्ठन्ति एवं बुद्धानां बुद्धविषयोऽचिन्त्यः / / 679. (i) पुनर्भवस्य वासनाया आहारकं कारणमिति [Ms. 67 A] हेतुः / (ii) उपचितवासनानां सत्त्वनां देवादिसत्त्वनिकाये तदाकृतिप्रकृतिसादृश्येन समस्योदयस्य कारणमिति [As. P. 62] समुदयम् / (iii) प्रत्यात्म संताननयम्येन गतियोन्यादिसर्वप्रकारः प्रकर्षेण यावद्भवाग्रगतस्योद्भवस्य कारणमिति प्रभवः / (iv) अपूर्व[T. 67 A]स्यान्यस्यात्मभावस्य प्राप्तौ पूर्वात्मभावात्ययेन कारणमिति प्रत्ययः / / 680. [Ch. 733 B] संस्काराणामुपरमात्स निरोधोऽन्यः स्यात्तदसंबध्यमानोऽर्थान्तरभूतः स्यात् / अथानन्य: स्यात्संक्लेशलक्षणः स्यात् / अत एव नोभयो नानुभयश्च / प्रपञ्चः पुनरस्मिन्नर्थेऽयोनिशश्चिन्त्येत्यमार्गेणान्यायेनानयेन' चिन्त्येत्यर्थः, अन्यथा चिन्तयितव्येऽन्यथाचिन्तना[त्] / कथं पुनश्चिन्त्यः / शान्तः प्रणीत इत्येवमादिभिः प्रकारैः / / [As. P. 63] निरलंकारः प्रज्ञाविक्तानां विद्यादिवैशेषिकगुणालंकाराभावात् / / पर्यायतोऽशे [Ch. 733 C]षप्रहाणमित्युद्देशः, शेषो निर्देशः / अत एव तत्परिशिष्टानि पदान्युपादायेत्युच्यते, तैस्तस्य निर्देशात्। कथं कृत्वाऽशेष. प्रहाणम् / पर्यवस्थानानुशयप्रहाणात् / तत्र प्रतिनिःसर्गः पर्यवस्थान प्रहा[Ms. 67 B]णमधिकृत्य, उत्पन्नस्य परिवर्जनात् / व्यन्तीभावोऽनुशयप्रहाणम्, मूलाभावेऽत्यन्तमनुत्पादात् / तत्पुनदर्शनभावनामार्गप्रतिपक्षभेदाद्विधा व्यवस्थाप्यते-क्षयो विराग इति / तत्र दर्शनमार्गेण विरागतामधिकृत्य क्षयः, अल्पमात्रावशिष्टत्वात् क्लेशराशेः। भावनामार्गेण वि[T. 67 B] रागः, तस्य भूमिवैराग्यगमनप्रविभावितत्वात् / तदुभयविसंयोगे पुनः सत्यायत्यां च दुःखं निरुध्यते, अनुत्पत्तिधर्मतापादनात् / दृष्टे च धर्मे दौर्मनस्यं व्युपशाम्यति, असमुदाचारात् / अतस्तत्फलभूतस्य दुःखस्य प्रहाणमधिकृत्याह-निरोधो व्युपशम इति / पूर्वकर्मक्लेशसमुदागतानां तु सत्त्वानां' स्वरसेनैवोपरम [म]धिकत्याह-अस्तंगम इति / एवं कृत्वाशेषप्रहाणं निर्दिष्टं वेदितव्यम् / / 1. For our °न्ति / एवं, Ms. °न्त्येत्येवं. 2. T.& Ch. अनुपायेन for अनयेन. 3. Ms. inserts द. 4. Ms. नः. 5. Ms. दा. 6. Ms. धा. 7. T.& Ch. स्कन्धानां.