________________ 72 अभिधर्मसमुच्चयभाष्यम् कायवाक्संपत्त्या संपन्नः आपत्त्यनध्यापन्नतया' शीलाविपादनात् / परिशद्धकायवाक्समुदाचारः समाधिसंनिश्रयतया समाधिबलेन दौःशील्यमलदूरीकरणात् / कुशल[काय]वाक्समुदा[Ms. 65A]चारः क्लिष्टवितर्काव्यवकीर्णतयैकान्तशुभत्वात् / अनवद्यकायवाक्समुदाचारो भवभोगापरिणामितत्वेन सद्भिः प्रशस्तत्वात् / अव्याबध्यकायवाक्समुदाचार आत्मोत्कर्षणादिभिः परेषामवज्ञादुःखसंवासेनाघट्टनात् / आनुलोमिककायवाक्समुदाचारो निर्वाणानुप्राप्त्यनुकूलतयार्यमार्गावाहनात् / अनुच्छविककायवाक्समुदाचारः स्व[T. 65A]दोषगुणाविष्कम्भणछादनार्थम् / प्रौपयिककायवाक्समुदाचारः सब्रह्मचार्युपग्रहणशील. तयोपगमनाहत्वात् / प्रतिरूपकायवाक्समुदाचारो गुरुषु गुरुस्थानीयेषु च निहितमानतया यथार्हमुपचरणात् / प्रदक्षिणकायवाक्समुदाचारोऽववादे प्रदक्षिणग्राहितयाऽस्वयंदृष्टिपरामर्शत्वात् / अतप्तकायवाक्समुदाचारः कष्टतपोलूहाधिमुक्तिविजिततयाऽनात्मतपत्वात् / अननु ताप्यकायवाक्समुदाचारः समुत्सृष्टान् भोगान् कर्मान्तांश्चारभ्याविप्रतिसारितया पश्चात्तापाभावात् / अविप्रतिसारकायवाक्समुदाचारः कुशलपक्षमा[Ms. 65B] रभ्याल्पमात्रेणासंतुष्टस्या-[Ch. 732B]विप्रतिसारितया यावच्छक्यं संपादनात् / / 577. [As. P. 61] कर्म स्वकमेषां त इमे कर्मस्वकाः / कथं पुनस्तेषां कर्म स्वकं भवति / स्वयंकृतकर्मविपाकप्रतिसंवेदनतामुपादाय, तद्धि नाम स्वकमित्युच्यते यत्परैरसाधारण मिति / कर्माणि दायाय एषां त इमे कर्मदायादाः / कथं कर्मणां दायादत्बम् / तस्यां स्वयंकृतविपाकप्रतिसंवेदनायां कुशलाकुशलानां कर्मणामन्योन्यदाया[T. 65B]दतामुपादाय यथास्वमिष्टानिष्टफलसंविभजनात् / ते पुनः स्वकृतकर्मेष्टानिष्टविपाकप्रतिसंवेदिनः सत्त्वाः कुत आदितः संभूताः किमहेतुका आहोस्वित् प्रकृतीश्वरादिहेतुका इत्याह कर्मयोनीयाः / कर्मवैषामहेतु. विषमहेतुजितो योनिः सत्त्वानां संभवायेत्यर्थः / एवं तावत्प्रवृत्तिमारभ्य निवृत्तिमप्यारभ्य कर्मप्रतिसरणाः, सास्रवकर्मप्रहाणायानास्रवकर्मसंश्रयणात् कमैवैषां प्रतिसरणं भवतीति // . 578. यदुक्तमचिन्त्यः सत्त्वानां कर्मविपाक इति न सर्वैः प्रकारैः [अ] सावचिन्त्यो वेदितव्यः / कथं तहि [Ms. 66A] चिन्त्यः-5 कथमचिन्त्यः / 1. T. अनापत्तेः, Ch. आपद्यमविपादनतया (It does not break the breakable) for आपत्त्यनध्यापन्नतया. 2. Ms. त. 3. Ms. . 4. T. यथा स्वं स्वमि'. 5.""5. T. drops "कथं.."चिन्त्यः ".