________________ सत्यविनिश्चयः अन्नपानमित्येवमादिनेच्छापरिपूरणदानताम्, यथाभिप्रायं सर्वोपकरणवस्तुपरित्यागात् / मुक्तत्यागः प्रततपाणिय॑वसर्गरतो यायजूकस्त्यागसंपन्नो दानं संविभागरत इत्येभिः पदैर्यथाक्रममनिश्रितदानतादयो वेदितव्याः। अनिधितदानता पुनर्भवभोगापरिणामितत्वेन वेदितव्या // [Ch. 731 C] देयसंपदमधिकृत्योत्थानवीर्याधिगतरित्यनेनानभिद्रुग्धदेयवस्तुतां दर्शयति / अभिद्रुग्धं ह्यनुत्थानवीर्याधिगतं भवति, [T.64 A] स्वस्थाने स्थित्वा परनिक्षेपा[प] लपनेन प्रतिलब्धत्वात् / वाहुबलोपाजितरित्यनेनापरापहतदेयवस्तताम। परेभ्यो ह्यपहतं न बाहबलोपाजितं भवति, तैः कृच्छेण विविधैरुपायैरजितस्यापहरणात् / स्वेदमला पक्षिप्तैरित्यनेनाकुथितविमलदेयवस्तुताम्, स्वेदमलाभ्यामपक्षिप्तत्वादुज्झितत्वादित्यर्थः। धार्मिकरित्यनेन कल्पिक देयवस्तुताम्, शस्त्रविषमद्याद्यकल्पिकवस्तुविवजितत्वात् / धर्मलब्धरित्यनेन धर्माजितदेयवस्तुतां दर्शयति, तुलाकूलादिमिथ्याजीव [Ms. 64 B] परिवर्जनेनोपार्जितत्वात् / / 675 [As. P. 60] शीलं समादायाखण्डनेन तद्योगाच्छीलवान् भवति / मोक्षं प्रति यः संवरः स प्रातिमोक्षसंवरः / स हि संसारान्निर्याणाय भवति / आचारसंपन्नः सद्भिरगर्हितेर्यापथादित्वात् / गोचरसंपन्नः पञ्चागोचरपरिवर्ज'. नात् / पञ्च भिक्षोरगोचरा:- घोषो वेशः पानागारं राजकुलं चण्डालकठिनमेव पञ्चमम् / प्रज्ञप्तिसावद्येष्वपि [Ch. 732 A] प्रकृतिसावद्ये [T. 64 B]ष्विव तीवेण गौरवेण शिक्षणादणुमात्रेष्ववद्येषु भयदर्शी भवति / समन्तात् परिपूर्ण शिक्षामादाय शिक्षते शिक्षापदेष्वित्युच्यते / / 876. अतः परं शीलमारभ्य यद्भगवता सूत्रान्तरेषु निर्दिष्टं कायेन संवतो भवतीत्येवमादि तस्यार्थ उच्यते / तत्र कायेन वाचा संवतो भवति संप्रजन्यपरिगृहीततया यथनुज्ञातमभिक्रमप्रतिक्रमादिषु बुद्धिपूर्वं सम्यग्वर्तनात् / - 1. मुक्तत्याग and the words that follow, see Mvt. Nos. 2844-48. . Mvt. gives only five and not six as given here. Mvt. omits त्यागसंपन्नः. Ms. ने. 3. Ch. explains here क्षेत्रभाजनदान, प्रततपाणि, यायजूक, त्यागसंपन्न and दानसंविभागरत. 4. Ms. °लमा° for °ला', cf. Mvt. No. 7055. 5. Ms.. कल्पितक (?). Mvt. No. 9196 supports our reading. 6. T. adds आदि . 7. Ms. जि.. 8. Ch. 'place of music' or 'singing'; T. 'place of Killing'. 9. For kathina, T. 'house'.