________________ 70 अभिधर्मसमुच्चयभाष्यम् प्रवृत्तिक्षणनयम्ये नोच्यते तदेवोभयमित्यपि तु सहाशयप्रयोगेणेकं कर्मेत्ययमत्राभिसंधिर्वेदिव्यः / तयोश्च कृष्णशुक्लता प्रत्यन्योन्यासादृश्ये सत्येकं कर्म कृष्णशुक्लं व्यवस्थाप्यते / तत्राशयतः कृष्णं प्रयोगतः शुक्लं यथापि कश्चित्परान् वञ्चयितु. कामस्तेषां संप्रत्ययननिमित्तं भावेन दानानि ददाति यावत्प्रव्रजत्यपि / प्रयोगतः कृष्णमाशयतः शुक्लं यथापि कश्चित्पुत्रं वा शिष्यं वाऽहितानिवारयितुकामो हिते च नियोजयितुकामोऽनुकम्पाचित्तः कायेन वाचा वा परुषया तस्मिन्काले संक्लिश्यते / / (iv). अकृष्णशुक्लाविपाक कर्म कर्मक्षयाय संवर्तते प्रयोगानन्तर्य[T. 63 A]मार्गष्वनास्रवं कर्म प्रयोगमार्गानन्तर्यमार्गाणां प्रहाणप्रतिपक्षत्वात् / तत्राकृष्णं क्लेशमलाभावात् / शुक्लमेकान्तव्यवदानत्वात् / अविपाकं संसारविरोधित्वात् / कर्मक्षयाय संवर्ततेऽस्यैव कृष्णादिकस्य त्रिविधस्य सास्रवस्य कर्मणस्तेनानास्रवेण कर्मणा विपाकदानवासनासमुद्घातात् // अविशेषेण च सर्वस्यानात्रवस्य कर्मणः परिपन्थमानुकूल्यं स्वभाव[Ms. 63 B]मधिकृत्य वंकदोषकषायाणां शौचेयानां मौनेयानां च यथाक्रम व्यवस्थानं वेदितव्यम् // तत्र वंक[Ch. 731 B] मृजुकमार्गस्याष्टाङ्गस्योत्पत्त्यावरणभूतं कायवाङ्मनःकर्म / दोषो येन कायादिकर्मणा दूषिते संताने तत्तादृशमावरणभूतं कर्मोत्पद्यते / कषायाः तीथिकदृष्टिसंनिश्रितं कायादि कर्म, बुद्धशासनप्रसादविपक्षणाश्रद्धयकालुष्यपरिगृहीतत्वात् / / अपरः पर्यायः-शाश्वतोच्छेदानुपतितं मध्यमाप्रतिपद्विरोधार्थेन वंकम् / अपवाददृष्टिपरिगृहीतं व्यवदानव्यवस्थानप्रद्वेषार्थेन दोषः / सत्कायदृष्टिपरिगृहीतं नैरात्म्यतत्त्वदर्शनप्रतिबद्धा[T. 63 B]र्थेन कषाय इति / / शौचेयानि सुविशुद्धशीलसंग्रहीतमृजुष्टिसंगृहीतं च यत्कायवाङ्मनःकर्म, शीलदृष्टिविपत्तिमलवजितत्वात् / मौनेयानि शैक्षाशैक्षाणां यदनास्रवं कायवाङ्मन:कर्म मुनीनां तत्कर्मेति कृत्वा / / दानसंपदमधिकृत्य दानं दाता भविष्यतीत्यनेनाभीक्ष्णदानतां दर्शयति, तच्छीलतयां पुनः पुनर्दानात् / श्रमणेभ्यो' ब्राह्मणेभ्य इत्येवमादिनाऽपक्षपात दानताम्, अविशेष[Ms. 64 A]ण सर्वार्थिभ्यो दानात / 1. Ms. has additional न. 2. T. & Ch. omit मार्ग. 3. Ms. inserts another कर्म. 4. Ms. नं. 5. T. विदूषितचित्तस्य for दूषिते. 6. Ms. adds सत्. 7. Ms. adds दानेभ्यो. 8. Ms. तं.