________________ सत्यविनिश्चयः 672B. [As. p. 58] औरभ्रिका ये पशून् हत्वा तद्विक्रयेण जीविकां कल्पयन्ति / एवं कौक्कुटिकादयो यथासंभवं योजयितव्याः। नागबन्धका अरण्यात् हस्तिनो बद्ध वा द[म] यन्ति / नागमण्डलिका ये सर्पानादाय तत्क्रीडनर्जीवन्ति / मूत्रका ये परान् पैशुन्येनोपहत्य जीवन्ति / अभिजन्मतो [T. 62A] वा तत्कर्मसमादानतो वेति तत्कुलीनस्यान्यकुलीनस्य च यथाक्रमम् / कायवाक्प्रयोगपूर्वक: तत्कर्माध्याचारनिश्चयोऽसंवर इत्युच्यते / / $ 72C. [Ch. 730C] यथोवतसंबरासंवर विनिर्मुक्तस्य दानप्रियवचनादिकं खट चपेटादिकं च कर्म नवसंवरोनासंवर इत्युच्यते // $73. (i) दृष्टधर्मवेदनीयं कर्म यत्र जन्मनि कृतं तत्रैव यद्विपच्यते / (ii) उपपद्यवेदनोयं यदनन्तरे जन्मनि, [As. p. 59] तद्यथा [Ms. 62B] पञ्चानन्तर्याणि कर्माणि / * यस्य तावदेक मेवानन्तयं तस्य तद्विपाको ऽनन्तरं युक्तः, यस्येदानीं संबहुलानि तस्य कथं तद्विपाकप्रतिसंवेदना / सर्वेषां युगपद्विपाकः प्रतिसंविद्यते, तथाह्यनेकानन्तर्यकारिण प्राश्रयः सुकुमारतरो निर्वर्तते, कारणाश्च बहुतीव्रविचित्रा यदशाभूयसी वेदना प्रत्यनुभवति / / प्रारम्भं च प्रत्येतानि दृष्टधर्मवेदनीयादोनि व्यवस्थाप्यन्ते, न तन्मात्रवेदनीयतामधिकृत्य / यस्य तत्रैव जन्मनि विपाको विपक्तुमारभते [Ch. 731A] तदृष्टधर्मवेदनीयम् / यस्यानन्तरे जन्मन्यारभते तदुपपद्यवेदनीयम् ! यस्यानन्तरं जन्म लघयित्वारभते तदपरपर्यायवेदनीयमि[T. 62B]त्येवं च कृत्वा हाचित्तावदाने -"आनन्तर्यस्य कर्मणो नरके पुनःपुनश्च्युत्युपपादेन विपाकप्रतिसंवेदनम्"अनुलोमितं भवतीति / / 874 (i) कृष्णं कृष्णविपाकं कर्माकुशलम, क्लिष्टत्वादनिष्ट विपाकत्वाच्च / / . . . (ii) विपर्ययाच्छुक्लं शुक्लविपाकं धातुकं कुशलम् / / (iii) कृष्णशुक्लं कृष्णशुक्लविपाकं यत्कामप्रतिसंयुक्तं विपाक' व्या - मिश्रं कुशलाकुशलमित्यर्थः / कथमेकं कुशलं भवत्यकुशलं च / नात्र [Ms. 63A] ___ 1. T. & Ch. वा. 2. Ms. inserts तत्. 3. T. & Ch. omit तावत्. 4. T. inserts तत्. 5. T. & Ch. mention it as the name of an अवदान. 6. Ch, adds अक्लिष्टत्वादिष्टविपाकत्वाच्च. 7. T. & Ch. omit विपाकं which is proper. . 8. Ms. व्य.