SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 68 प्रियसखि ! यदि समस्तजगज्जननीजनकयोरपि देवीनृपयोर्देव्या बन्ध्यात्वं नृपस्य निर्वीजतं दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिः प्रख्यापितं लोके तत्किमित्यधुनाऽयं भव्यपुरुषोऽनयोः पुत्रतया महोत्सवकलकलेन प्रकाशित इति / प्रज्ञाविशालाऽऽह-समाकर्णयास्य प्रकाशने यत्कारणम् / अस्त्यस्यामेव नगर्या शुद्धसत्यवादी समस्तसत्त्वसङ्घातहितकारी सर्वभावस्वभाववेदी, अनयोश्च, कालपरिणतिकर्मपरिणामयोदेवीनृपयोः समस्तरहस्यस्थानेष्वत्यन्तभेदज्ञः सदागमो नाम परमपुरुषः / अस्ति च तेन सार्द्ध मम घटना / स चान्यदा दृष्टो मया सहर्षः, पृष्टो निर्बन्धेन हर्षकारणम् / तेनोक्तम्-'आकर्णय भद्रे ! यदि कुतूहलं, येयं कालपरिणतिर्महादेवी अनया रहसि विज्ञापितो राजा यदुत निर्विण्णाऽहमनेनात्मनोऽलीकवन्ध्याप्रवादेन यतोऽहमनन्तापत्यापि दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिर्वन्ध्येति प्रख्यापिता लोके, ममैवापत्यान्यान्यजनापत्यतया गीयन्ते, सोऽयं स्वेदजनिमित्तेन शाटकत्यागन्यायः / तदिदं वन्ध्याभावलक्षणं ममायशःकलङ्क शालयितुमर्हति देवः / ततो नृपेणोक्तं-देवि ! ममापि निर्बीजतया समानमेतत् , केवलं धीरा भव, लब्धो मया अयशःपङ्कक्षालनोपायः / देव्याह-कतमोऽसौ ? प्रभुराह-देव्यस्यामेव मनुजगतौ महाराजधान्यां वर्तमानया भवत्या मन्त्रिमण्डलवचनमनपेक्ष्य प्रकाश्यते प्रधानपुत्रस्य जन्म, क्रियते महानन्दकलकलः, ततश्विरकालरूढमप्यावयोर्निर्बीजत्ववन्ध्याभावलक्षणमयश कलई क्षालितं भविष्यतीति / ततः सतोषया प्रतिपनं महाराजवचनं देव्या, कृतं च यथाऽऽलोचितं ताभ्याम् / ततः प्रज्ञाविशाले ! योऽयं भव्यपुरुषो जातः स ममात्यन्तवल्लभः, अस्य जन्मनाऽहमात्मानं सफलमवगच्छामीत्यतो हर्षमुपागत इति / ततो मयोक्तं-शोभनं ते हर्षकारणं, ततोऽयमनेन कारणेन भव्यपुरुषो देवीनृपपुत्रतया प्रकाशित इति / अगृहीतसङ्केतयोक्तं--साधु वयस्ये ! साधु सुन्दरमाख्यातं, भवत्या नाशितो मे सन्देहः, तथा च त्वत्समीपमुपगच्छन्त्या मयाऽद्य हट्टमार्गे समाकर्णितो लोकप्रवादस्तथा देवीनृपयोः क्षालितमेवायशःकलङ्कमवगच्छामि / प्रज्ञाविशालयोक्तं-किमाकणितं प्रियसख्या ? तयोक्तं-दृष्टो मया तत्र बहुलोकमध्ये भव्यपुरुषभविष्यद्वत्ता- सुन्दराकारः पुरुषः / स च सविनयं पृष्टः पौरमहत्तमैः-भगवन् ! य एष राजदारको जातः स कीदृग्गुणो ख्यानमू भविष्यतीति / तेनोक्तं-भद्राः! शृणुत समस्तगुणभारभाजनमेष वर्द्धमानः कालंक्रमेण भविष्यतीत्यतो न शक्यन्तेऽस्य सर्वे गुणाः कथयितुं, कथिता अपि न पार्यन्तेऽवधारयितुं, तथापि लेशोद्देशतः कथयामि, "भविष्यत्येष निदर्शनं रूपस्य, निलयो यौवनस्य, मन्दिरं लावण्यस्य, दृष्टान्तः प्रश्रयस्य, निकेतनमौदार्यस्य, निधिविनयस्य, सदनं गाम्भीर्यस्य, आलयो विज्ञानस्य, आकरो दाक्षिण्यस्य, उत्पत्तिभूमिर्दाक्ष्यस्य, इयत्तापरिच्छेदः स्थैर्यस्य, प्रत्यादेशो धैर्यस्य, गोचरो लज्जायाः, उदाहरणं विषयप्रागल्भ्यस्य, सद्भर्ता धृविस्मृतिश्रद्धाविविदिषादिसुन्दरीणामिति / अन्यच्चानेकभवाभ्यस्तकुशलकर्मतया बालकालेऽपि प्रवर्त्तमानोऽयं न भविष्यति केलिप्रियः, दर्शयिष्यति जने वत्सलतां, समाचरिष्यति गुरुविनय, प्रकटयिष्यति धर्मानुरागं, न करिष्यति लोलतां विषयेषु, विजेष्यते कामक्रोधादिकमान्तरमरिषड्वर्ग, नन्दयिष्यति भवतां चित्तानीति"। ततस्तदाकर्ण्य सभयं सहर्षे च दिशो निरीक्षमाणैस्तैरभिहितम्- अहो विषमशीलतया समस्तजनविडम्बनाहेतुभूतयापि कालपरिणत्या कर्मपरिणामेन चेदमेकं सुन्दरमाचरितं यदाभ्यामस्यां सकलदेशविख्यातायां मनुजगतौ नगर्यामेष भव्यपुरुषः सुमतिर्जनितः, क्षालितान्येतज्जननेनाभ्यामात्मनः समस्तदुश्चरितान्यपुत्रत्वायशश्चेति।
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy