________________ 67 ततः ससम्भ्रममुपगम्य निवेदितं दारकस्य जन्म नरपतये प्रियनिवेदिकाभिधानया दासदाभव्यपुरुषा- रिकया, दत्तं च तेनाहादातिरेकसंपाद्यमनाख्येयमवस्थान्तरमनुभवता तस्यै च मनोरथाधिकं पारितोषिकं परनामसुम- दानं, दत्तश्चानन्दपुलको दसुन्दरं देहं दधानेन महत्तमानामादेशः यदुत-भो भो महत्तमाः ! देवीपुत्रतेजन्मनाम जन्माभ्युदयमुद्दिश्य घोषणापूर्वकं ददध्वमनपेक्षितसारासारविचाराणि महादानानि, पूजयत गुरुजनं, करणोत्स संमानयत परिजनं, पूरयत प्रणयिजनं, मोचयत बन्धनागारं, वादयताऽऽनन्दमईलसन्दोहं, नृत्यत यथेष्टमुद्दामतया, पिबत पानं, सेवध्वं दयिताजनं, मा गृह्णीत शुल्कं, मुञ्चत दण्डं, आश्वासयत भीतलोकं, वसन्तु मुस्वस्थचित्ताः समस्ता जनाः, नास्ति कस्यचिदपराधगन्धोऽपीति / ततो यदाज्ञापयति देव इति विनयनतोत्तमाङ्गैः प्रतिपद्य संपादितं तद्राजशासनं महत्तमैः, निर्वतितोऽशेषजनचमत्कारकारी जन्मदिनमहोत्सवः, प्रतिष्ठापितं समुचिते काले दारकस्य नरनाथेन स्वचित्तेनैवं पर्यालोच्य यतोऽस्य गर्भावतारकाले जननी सर्वाङ्गसुन्दरं नरं वदनेन प्रविशन्तं दृष्टवती ततोऽस्य भवतु भव्यपुरुष इति नाम / ततस्तदाकर्ण्य देवी राजानमुवाच-देवाहमपि पुत्रकस्य किंचिन्नाम कर्तुमभिलषामि तदनुजानातु देव. इति / नृपतिराह-देवि ! कः कल्याणेषु विरोधः?, अभिधीयतां समीहितमिति / ततस्तयोक्तं-यतोऽत्र गर्भस्थे मम कुशलकर्मकरणपक्षपातिनी मतिरभृत्ततोऽस्य भवतु सुमतिरित्यभिधानम् / ततोऽहो क्षीरे खण्डक्षेपकल्पमैतदेवी कौशलेन संपन्नं यद्भव्यपुरुषस्य सतः सुमतिरित्यभिधा नान्तरमिति बेवाणः परितोषमुपागतो राजा। विशिष्टतरं नामकरणमहोत्सवं कारयामास / अगृहीतस इतश्चास्ति तस्यामेव मनुजगतौ नगर्यामगृहीतसङ्केता नाम ब्राह्मणी, सा जनवादेन नरपतिपुत्रजन्मतिप्रभावि नामकरणवृत्तान्तमवगम्य सखीं प्रत्याह--प्रियसखि प्रज्ञाविशोले ! पश्य यच्छ्रयते महाश्चर्य लोके पालापः यथा कालपरिगतिमहादेवी भव्यपुरुषनामानं दारकं प्रसूतेति / ततः प्रज्ञाविशालयोक्तं-प्रियसखि ! किमत्राश्चर्य ? अगृहीतसङ्केताऽऽह-यतो मयाऽवधारितमासीत् किलैष कर्मपरिणाममहाराजो निर्बीजः स्वरूपेण, इयमपि कालपरिणतिर्महादेवी वन्ध्येति / इदानीं पुनरनयोरपि पुत्रोत्पत्तिः श्रुयत इति महदाचर्यम् / प्रज्ञाविशालाऽऽह--अयि मुग्धे ! सत्यमगृहीतसङ्केताऽसि, यतो न विज्ञातस्त्वया परमार्थः / अयं हि राजा अविवेकादिभिर्मन्त्रिभिरतिबहुबीज इति मा भूदुर्जनचक्षुर्दोष इति कृत्वा निर्बीज इति प्रकाशितो लोके / इयमपि महादेव्यनन्तापत्यजनयित्री तथापि दुर्जनचक्षुर्दोषभयादेव तैरेव मन्त्रिभिर्वन्ध्येति लोके प्रख्याप्यते, तथाहि-यावन्तः कचित्केचिजन्तवो जायन्ते तेषां सर्वेषामेतावेव देवीनृपौ परमवीर्ययुक्ततया परमार्थतया जननीजनकौ / अन्यच्च किं न दृष्टं श्रुतं वा क्वचिदपि प्रियसख्या अनयोर्नाटकं पश्यतोर्यन्माहात्म्यं ? यदुत राजा समस्तपात्राणि यथेच्छया नारकतिर्यनरामरगतिलक्षणसंसारान्तर्गतानेकयोनिलक्षप्रभवजन्तुरूपेण नाटयति, महादेवी पुनस्तेषामेव महाराजजनितनानारूपाणां समस्तपात्राणां गर्भावस्थितिबालकुमारतरुणमध्यमजराजीर्णमृत्युगर्भप्रविष्टनिष्क्रान्ता दिरूपाण्यनन्तवाराः कारयतीति / कर्म कालप- अगृहीतसङ्केताऽऽह-प्रियसखि ! श्रुतमेतन्मया, किन्तु यदि नाम कर्मपरिणामस्य राज्ञः रिणत्योः समस्तपात्रपरावर्तने सामर्थ्य कालपरिणतेर्वा महादेव्यास्तेषामेवापरापरावस्थाकरणशक्तिः तत्किमेतावसर्वान् प्रति जनकीजन तैवानयोर्जननीजनकत्वं संभवति ? प्रज्ञा विशालाऽऽह-अयि प्रियवयस्ये ! अत्यन्तमुग्धाऽसि, यतो गोरपीहार्द्धकथितमवबुध्यते, त्वं पुनः परिस्फुटमपि कथ्यमानं न जानीपे, यतः संसार एवात्र परमार्थतो नाटकं, तस्य च यौ जनकावेतौ परमार्थतः सर्वस्य जननीजनकाविति / अगृहीतसङ्केताऽऽह शालयो