________________ कालपरि गते महत्त्वं पुत्रचिन्ता प्रविशन्तु योनिजवनिकाभ्यन्तरे, अनुभवन्तु तत्र गर्भकलमलान्तर्गतानि विविधदुःखं, पुनश्च निर्गच्छन्तु रूपान्तरमुपादाय, कुर्वन्त्वेवमनन्तवाराः प्रवेशनिर्गमनम् / तदेवं सा कालपरिणतिर्महादेवी तेषां संसारनाटकान्तर्गतानां समस्तपात्राणामवस्थितरूपेण क्षणद्वयमप्यासितुं न ददाति, किं तर्हि ? क्षणे क्षणे वराकाणि तान्यपरापररूपेण परावर्त्तयति। किं च तेषां नृत्यतां यान्युपकरणानि पुद्गलस्कन्धनामानि पूर्वमाख्यातानि तान्यप्यतिचपलस्वभावतया साऽऽत्मनः प्रभुत्वं दर्शयन्ती क्षणे क्षणे अपरापररूपं भाजयति, तानि च पात्राणि किं किं कुर्वन्ति ? तत्र राजाप्यस्या, वशवर्ती, न चान्योऽस्ति कश्चिदात्मनो मोचनोपाय इति विचिन्त्य निर्गतिकानि सन्ति यथा यथा सा कालपरिणतिराज्ञापयति तथा तथा नानाकारमात्मानं विडम्बयन्तीति / किं च कर्मपरिणामादपि सकाशात्सा कालपरिणतिरात्मन्यधिकतरं प्रभुत्वमावेदयत्येव स्वचरितैः / तथाहि-कर्मपरिणामस्य संसारनाटकान्तर्भूतजन्तुसन्तानापरापररूपकरणगोचर एव प्रभावः, तस्याः पुनः कालपरिणतेः संसारनाटकव्यतिकरातीतरूपेष्वपि निर्वृतिनगरीनिवासिलोकेषु क्षणे क्षणे अपरापरावस्थाकरणचातुर्य समस्त्येव, इत्यतः सा संजातोत्सेकातिरेका किं न कुर्यादिति ? तदेवमनवरतप्रवृत्तेन परमाद्भुतभूतेन तेन नाटकेन तयो देवीनृपयोर्विलोकितेन संपद्यते मनःप्रमोदः, तद्दर्शनमेव तौ स्वराज्यफलमवबुध्येते इति / तयोश्च तिष्ठतोरेवमन्यदा रहसि स्थिता / सहर्ष वीक्ष्य राजानं, सा देवी तमवोचत // 1 // भुक्तं यश्चाद्य भोक्तव्यं, पीतं यत्पेयमञ्जसा / मानितं यन्मया मान्यं, साभिमानं च जीवितम् // 2 // नास्त्येव तत्सुखं लोके, यस्य नास्वादितो रसः। प्राप्तं समस्तकल्याणं, प्रसादाद्देवपादयोः // 3 // दृष्टं द्रष्टव्यमप्यत्र, लोके यनाथ ! सुन्दरम् / किन्तु पुत्रमुखं देव !, मया नाद्यापि वीक्षितम् // 4 // यदि तद्देवपादानां, प्रसादादेव जायते / ततो मे जीवितं श्लाघ्यमन्यथा जीवितं वृथा // 5 // नरपतिरुवाच-साधु साधूदितं देवि!,रोचते मह्यमप्यदः।समदुःखसुखो देव्या, वर्तेऽहं सर्वकर्मसु॥६॥ किं च-न विषादोऽत्र कर्तव्यो, देव्या यस्मात्प्रयोजने / आवयोरेकचित्तत्वं, यत्र तज्जायते ध्रुवम् // 7 // कालपरिगतिरुवाच-चारु चारूदितं नाथैर्विहितो मदनुग्रहः। भविष्यतीत्थमेवेदं बद्धो ग्रन्थिरयं मया॥८॥ आनन्दजलपूर्णाक्षी, भर्तुर्वाक्येन तेन सा / ततः संजातविश्रम्भा, सतोषा समपद्यत // 9 // अन्यदा पश्चिमे यामे, रजन्याः शयनं गता। स्वमे कमलपत्राक्षी, दृष्ट्वं सा व्यबुध्यत // 10 // वदनेन प्रविष्टो मे जठरे निर्गतस्ततः / नीतः केनापि मित्रेण, नरः सर्वाङ्गसुन्दरः // 11 // ततो हर्षविषादाढयं, वहन्ती रसमुत्थिता। तं स्वप्नं नरनाथाय, साऽऽचचक्षे विचक्षणा // 12 // नरपतिरुवाच-स्वमस्यास्य फलं देवि!, मम चेतसि भासते। भविष्यत्युत्तमः पुत्रस्तवानन्दविधायकः।१३। केवलं न चिरंगेहे, तावके स भविष्यति / धर्मसूरिवचोबुद्धः, स्वार्थसिद्धिं करिष्यति // 14 // कालपरिणतिरुवाच-जायतां पुत्रकस्तावत्पर्याप्तं तावतैव मे / करोतु रोचते तस्मै, यत्तदेव ततः परम्॥१५॥ ततश्चाविरभूदगर्भस्तं वहन्त्याः प्रमोदतः। अथ मासे तृतीयेऽस्याः, संजातोऽयं मनोरथः॥१६॥ अभयं सर्वसत्त्वेभ्यः, सर्वार्थिभ्यो धनं तथा। ज्ञानं न ज्ञानशन्येभ्यश्चेद्यच्छामि यथेच्छया॥१७॥ तथाविधविकल्प तं, निवेद्य वरभूभुजे / संपूर्णेच्छा ततो जाता, कृत्वेष्टं तदनुज्ञया // 18 // अथ संपूर्णकालेन, मुहर्त्त सुन्दरेऽनघा / सा दारकं शुभं सूता, सर्वलक्षणसंयुतम् // 19 // 11 तदा सफलं जनुरिती शेषः