________________ 69 सदागम- तदिदं समस्तमवहितचित्तया मयाऽऽकणितं, तत एव संजातो मे मनसि वितर्कः,-कथं शक्तिः पुनरनपत्यतया प्रसिद्धयोर्दैवीनृपयोः पुत्रोत्पत्तिः ? को वैष पुरुषः सर्वज्ञ इव भविष्यत्कालभाविनी राजदारकवक्तव्यतां समस्तां कथयतीति ? ततश्चिन्तितं मया-प्रियसखीमेतद्वयमपि प्रश्नयिष्यामि, कुशला हि सा सर्ववृत्तान्तानां, तत्रापनीतो भवत्याः प्रथमः सन्देहः, साम्प्रतं मे द्वितीयमपनयतु भवती, प्रज्ञाविशालयोक्तम्-वयस्ये ! कार्यद्वारेणाहमवगच्छामि, स एव मम परिचितः परमपुरुषः सदागमनामा तदाचक्षाणोऽवलोकितो भवत्या, यतः स एवातीतानागतवर्तमानकालभाविनो भावान कररालगतामलकमिव प्रतिपादयितुं पटिष्ठो, नापरः, यतो विद्यन्तेऽस्यां मनुजगतौ नगर्सामन्येऽपि तादृशा अभिनिबोधावधिमनःपर्यायकेवलनामानश्चत्वार परमपुरुषाः, केवलं न तेषां परप्रतिपादनशक्तिरस्ति / मूका हि ते चत्वारोऽपि स्वरूपेण, तेषामपि स्वरूपं सत्पुरुषचेष्टितमवलम्बमानः परगुणप्रकाशनव्यसनितया लोकसमक्षमेष एव सदागमो भगवानुत्कीर्तयति / सदागमान __अगृहीतसङ्केतयोक्तम्-वयस्ये ! किं पुनः कारणमेषः राजदारकोऽस्य सदागमस्यात्यन्तवल्लभः ? मस्य हेतुः किं चैतन्जन्मनाऽऽत्मानमयं सफलमवगच्छतीति श्रोतुमिच्छामि / प्रज्ञाविशालयोक्तम्-एष हि महापुरुष तया सततं परोपकारकरणपरायणः समस्तजन्तुभ्यो हितमाचरत्येव, केवलमेते पापिष्ठाः प्राणिनो नास्य वचने वर्तन्ते / ते हि न लक्षयन्ति वराका यदस्य भगवतो माहात्म्यं, ततस्तेभ्यो हितमुपदिशन्तमप्येनं सदागम केचिद् दूषयन्ति, केचिदपकर्णयन्ति, केचिदुपहसन्ति, केचिदपदिष्टाकरणशक्तिमात्मनो दीपयन्ति, केचित्तद्वचनाद् दूरत एव त्रस्यन्ति, केचित्तं प्रतारकधिया शङ्कन्ते, केचित्तद्वचनमादित एव नावबुध्यन्ते, केचित्तद्वचनं श्रुतमपि न रोचयन्ति, केचित्तद्रोचित्तमपि नानुतिष्ठन्ति, केचिदनुष्ठातुमधिकृतमपि पुनः शिथिलयन्ति / ततश्चैवं स्थिते नास्य सम्यक् संपद्यते परोपकारकरणलक्षणा समीहितसिद्धिः / ततोऽयमनया सततं प्राणिनामपात्रतया गाढमुवेजितः। भवत्येव हि गुरूणामपि निष्फलतया कुपात्रगोचरो महाप्रयासः चित्तखेदहेतुः। अयं तु राजदारको भव्यपुरुष इति पात्रभूतोऽस्य प्रतिभासते / भव्यपुरुषः सन्नपि यदि दुर्मतिः स्यात् ततो न पात्रतां लभेत / अयं तु राजदारको यतः सुमतिरतः पात्रभूत एवेतिकृत्वाऽमुष्य सदागमस्यात्यन्तवल्लभः / अन्यच्चायं सदागमो मन्यते-यतोऽस्य दारकस्यैवंरूपतया जनकत्वादेव सुन्दरतरः कर्मपरिणामः, कल्पना जननीत्वादेव चानुकूला कालपरिणतिः ततोऽयं विमुक्तबालभावः सुन्दरतया निजस्वभावस्य प्रत्यासन्नतया कल्याणपारम्पर्यस्य प्रमोदहेतुतयैवंविधपुरुषाणां मदर्शनमस्यामुपलभ्य नियमेनास्य भविष्यति / मनस्येवंविधो वितर्कः-यथा सुन्दरेयं मनुजगतिर्नगरी यस्यामेष सदागमः परमपुरुषः प्रतिवसति / ममाप्यस्ति प्रायेण योग्यता काचित्तथाविधा यया तेन सह मीलकः संपन्नः / ततोऽमुं परमपुरुष विनयेनाऽऽराध्यास्य सम्बन्धि ज्ञानमभ्यस्यामि, ततोऽनुकूलत्वाजननीजनकयोस्ताभ्यां समर्पितो भविष्यति ममैष शिष्यः, ततोऽहमस्य संक्रामितनिजज्ञानः कृतकृत्यो भविष्यामीति बुद्धयाऽयं सदागमोऽस्य सुमतेभव्यपुरुषस्य जन्मना सफलमात्मानमवगच्छतीति / अत एव संजातपरितोषतया जनसमक्षं राजदारकगुणानेष वर्णयति / सदागम अगृहीतसङ्केतयोक्तम्-प्रियसखि ! किं पुनरस्य भगवतः सदागमस्य माहात्म्य ? यदेते पापिष्ठसच्चा नावबुध्यन्ते अनवबुध्यमानाश्च नास्य वचने वर्तन्त इति / प्रज्ञाविशालयोक्तम्-वयस्ये ? समाकर्णय-य एव सर्वत्रानिवारितशक्तिप्रसरः कर्मपरिणामो महाराजो यथेष्टचेष्टया संसारनाटकमावर्त सदागमस्थ महिमा