________________ यमानः सततमीश्वरान् दरिद्रयति, सुभगान् दुर्भगयति, मुरूपान् कुरूपयति, पण्डितान्मूर्खयति, शूरान् क्लीबयति, मानिनो दीनयति, तिरथो नारकायति, नारकान्मनुष्ययति, मनुष्यान्देवयति, देवान् पशुभावमानयति / नरेन्द्रमपि कीटयति, चक्रवर्तिनमपि द्रमकयति, दरिद्रान्वेश्वरादिभावान् प्रापयति, किम्बहुना ? यथेष्टं भावपरावर्तनं विदधानो न कचित्प्रतिहन्यते अयमप्यस्य भगवतः सदागमस्य संबन्धिनोऽभिधानादपि बिभेति, गन्धादपि पलायते / तथाहि-तावदेष कर्मपरिणाम एतान्समस्तलोकान्संसारनाटकविडम्बनया विडम्बयति यावदयं सदागमो भगवान हुंकारयति, यदि पुनरेष हुकारयेत्ततो भयातिरेकत्रस्तसमस्तगात्रो महासमरसंघट्टे कातरनर इव प्राणान् स्वयमेव समस्तानपि मुश्चेत् , मोचिताश्चानेनामुष्मादनन्ताः प्राणिनः / अगृहीतसङ्केतयोक्तम्-ते किमिति न दृश्यन्ते ?, प्रज्ञाविशालाऽऽह-अस्ति कर्मपरिणाममहाराजभुक्तेरतिक्रान्ता निर्वृति म महानगरी, ततस्ते सदागमहुकारेण कर्मपरिणाममप्रभवन्तमात्मन्युपलभ्य मोचिता वयं सदागमेनेति मत्वा कर्मपरिणामशिरसि पाददानद्वारेणोडीय तस्यां गच्छन्ति, गताश्च तस्यां सकलकालं समस्तोपद्रवत्रसरहिताः परमसुखिनस्तिष्ठन्तिः तेन कारणेन ते नेह दृश्यन्ते / अग्रहीतसङ्केतयोक्तम-यद्येव किमित्येष सर्वलोकान मोचयति ? कथिता ह्येते वराकाः सर्वेऽप्यनेनातिविषमशीलतया कर्मपरिणाममहाराजेन, तम युक्तमस्य महापुरुषशेखरस्य सत्यामेवंविधशक्ता तत्कदर्थनस्योपेक्षणमिति / प्रज्ञाविशालाऽऽह-सत्यमेतत् केवलं प्रकृतिरियमस्य भगवतः सदागमस्य यया वचनविपरीतकारिषु कुपात्रेष्ववधीरणां विधत्ते, ततस्ते नावधीरिताः सन्तो नाथरहिता इति मत्वा गाढतरं कर्मपरिणामराजेन कदर्थ्यन्ते / ये तु पात्रभूततयाऽस्य निर्देशकारिणो भवन्ति तानेव स्वां प्रकृतिमनुवर्तमानः कर्मपरिणामकदर्थनायाः सर्वथा ऽयं मोचयतीति / येऽपि लोका भगवतोऽस्य सदागमस्योपरि भक्तिमन्तोप्यस्य सम्बन्धिवचनं तथाविधशक्तिविकलतया संपूर्णमनुष्ठातुं न शक्नुवन्ति, किं तर्हि ? तन्मध्याद् बहुतमं, बहुतरं, बहुस्तोकं, स्तोकतरं, स्तोकतम वा कुर्वन्ति भक्तिमात्रकं वाऽस्योपरि विदधति नाममात्रं वाऽस्य गृह्णन्ति / ___ यदि वा येऽस्य भगवतः सम्बन्धिनि वचने वर्तन्ते महात्मानस्तेषामुपरि 'धन्याः कृतार्थाः पुण्यभाजः सुलब्धजन्मान एते' इत्यादिवचनलिङ्गगम्यं पक्षपातं कुर्वन्ति / यद्वाऽस्य भगवतोऽभिधानमात्रमप्यजानानाः प्रकृत्यैव ये भद्रका भवन्ति ततश्च मार्गानुसारिसदन्धन्यायेनानाभोगतोऽप्यस्य नानुसारेण वत्तन्ते तानप्येवंविधाननल्पविकल्पान् लोकानेष कम्मेपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति तथाऽपि सदागमस्याभिप्रेता एत इति मत्वा नाधमपात्रभावं नारकतिर्यक्कुमानुषकदमररूपं तेषां विधत्ते / किं तर्हि ? केपाश्चिदनुत्तरसुररूपं दर्शयति, केषाश्चिद् अवेयकामराकारं प्रकटयति, केषाश्चिदुपरितनकल्पोपपनदेवरूपतां जनयति, केषाश्चिदधस्तनकल्पोपपनमहर्द्धिलेखकरणिं कारयति, केषाश्चिद् भुवि सुरूपतां लक्षयति, केषाञ्चिच्चक्रवर्तिमहामण्डलिकादिप्रधानपुरुषभावं भावयति, सर्वथा प्रधानपात्ररूपतां विहाय न कदाचिद्रूपान्तरेण तन्नर्तयति / तत्पर्याप्तमेतावताऽस्य भगवतः सदागमस्य माहात्म्येन यदेवंविधसामर्थ्ययुक्तोऽप्येष कर्मपरिणामो महानृपतिरेतद्भयाक्रान्तहृदयः खल्वेवं वर्तते अन्यच्च कथ्यते तुभ्यं, कौतुकं यदि विद्यते / रूपं सदागमस्यास्य, तद् बुध्यस्व मृगेक्षणे // 1 // एष एव जगनाथो, वत्सलः परमार्थतः / एष एव जगत्त्राणमेष एव सुबान्धवः // 2 // एष एव विपद्गर्ने, पततामवलम्बनम् / एष एव भवाटव्यामटतां मार्गदेशकः // 3 //