________________ सदागम महिमा एष एव महावैद्यः, सर्वव्याधिनिबर्हणः / एष एव गदोच्छेदकारणं परमौषधम् // 4 // एष एव जगदीपः, सर्ववस्तुप्रकाशकः / प्रमादराक्षसात्तूर्णमेष एव विमोचकः // 5 // एषोऽविरतिजम्बालकल्मपक्षालनक्षमः / एष एव च योगानां, दुष्टानां वारणोद्यतः // 6 // शब्दादिचरटाक्रान्ते हृतधर्मधने जने। समर्थों भगवानेष, नान्यस्तस्य विमोचने // 7 // एष एव महाघोरनरकोद्धरणक्षमः / पशुत्वदुःखसंघातान्त्रायकोऽप्येष देहिनाम् // 8 // एष एव कुमानुष्यदुःखविच्छेदकारणम् / एष एव कुदेवत्वमनःसन्तापनाशकः // 9 // अज्ञानतरुविच्छेद, एष एव कुठारकः / एष एव महानिद्राद्रावणः प्रतिबोधकः // 10 // एष स्वाभाविकानन्दकारणत्वेन गीयते / सातासातोदयोत्पाद्यमिथ्याबुद्धिविधूनकः // 11 // एष एव गुरुक्रोधवह्निविध्यापने जलम् / एष एव महामानपर्वतोदलने पविः // 12 // एष मायामहाव्याघ्रीघातने शरभायते / एष एव महालोभनीरदे शोषणानिलः // 13 // एष हास्यविकारस्य, गाढं प्रशमनक्षमः / एष मोहोदयोत्पाद्यां, रति निर्नाशयत्यलम् // 14 // एष एवाति(भय)ग्रस्ते, जनेऽस्मिन्नमृतायते / एष एव भयोद्धान्तसत्त्वसंरक्षणक्षमः॥१५॥ एष शोकभराक्रान्तं, संधीरयति देहिनाम् / एष एव जुगुप्सादिविकारं शमयत्यलम् // 16 // एष कामपिशाचस्य, दृढमुच्चाटने पटुः / एष एव च मार्तण्डो, मिथ्यात्वध्वान्तसूदनः // 17 // एष एव चतुर्भदजीवितोच्छेदकारणम् / यतो जीवं १२ततोऽतीते, नयत्येष शिवालये // 18 // शुभेतरेण या नाम्ना, कृता लोकविडम्बना। कृन्ते तामेष लोकानामन१३ङ्गस्थानदानतः // 19 // सर्वोत्तमत्वं भक्तानां, विधायाक्षरध्यमव्ययम् / एष एव छिनत्त्युच्चैनीचैर्गोत्रविडम्बनाम // 20 // एष एव च दानादिशक्तिसन्दोहकारणम् / एष एव महावीर्ययोगहेतुरुदाहृतः // 21 // अन्यच्च ये महापापा, निर्भाग्याः पुरुषाधमाः / न ते सदागमस्यास्य, नामापि बहु मन्यते // 22 // १५ततस्तेन नरेन्द्रेण, ते पूर्वोक्तविधानतः / संसारनाटकेनोच्चैः, कदर्थ्यन्ते निरन्तरम् // 23 // य एव भाविकल्याणाः, पुण्यभाजो नरोत्तमाः / ते सदागमनिर्देश, कुर्वन्ति महदाद१५अरात् // 24 // ततोऽपकर्ण्य राजानं, ते विडम्बनकारिणम् / संसारनाटकान्मुक्ता, मोदन्ते निवृतौ गताः // 25 // राजभुक्तौ वसन्तोऽपि, राजानं तृणतुल्यकम् / सदागमप्रसादेन, मन्यन्ते ते निराकुलाः // 26 // किंचाऽत्र बहुनोक्तेन ? नास्ति तद्वस्तु किश्चन / सदागमेऽस्मिन् भक्तानां, सुन्दरं यन्न जायते // 27 // तदेतदस्य माहात्म्यं, किञ्चिल्लेशेन वर्णितम् / विशेषतः पुनः कोऽस्य, गुणानां वर्णनक्षमः ? // 28 // ततः प्रज्ञाविशालाया, वाक्यमाकर्ण्य विस्मिता। हृदये चिन्तयत्येवं, सा सन्देह पुपागता // 29 / / यदिदं प्रियसख्या मे, विहितं गुणवर्णनम् / यदि सत्यमिदं तेन, नास्ति तुल्यस्ततोऽपरः॥३०॥ अतः पश्यामि तं तावत्करोमि स्वं विनिश्चयम् / परप्रत्ययतो ज्ञाते, न सन्देहो निवर्तते // 31 // ततश्चैवं विचिन्त्य तया अगृहीतसङ्केतयाऽभिहिता प्रज्ञाविशाला-प्रियसखि ! सुनिश्चितं सत्यवादिनीमपि भवतीमधुनाऽहमनेन सदागमस्यासम्भावनीयगुणवर्णनेनानर्गलभाषिणीमिव परिकल्पयामि / भवति च मे मनसि विकल्प:-किल परिचितमितिकृत्वा तमेषा वर्णयति, अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतश्चिद्विभियात् ? कथं वैकत्र पुरुषे एतावान् गुणसंघातः संभाव्येत ? न च प्रियसखी 12 तेन-कर्म परिणामेन अतीते रहिते 13 न विद्यतेऽङ्ग शरीर यत्र तत् अनङ्ग शिवास्पदमेव 14 . य पद. पा. 15 ततोऽनेन प्र. १५अ विहितादराः प्र.