________________ कदाचन मां विप्रलम्भयति ततः सन्देहापानं दोलायते मे मनः, अतस्तमात्मपरिचितं परमपुर विशेषतो दर्शयितुमर्हति मे भवती / सदागम प्रज्ञाविशालाऽऽह-सुन्दरमेतद् अभिप्रेतमेव मे हृदयस्य, अभिगमनीयो द्रष्टव्य एव चासो पाचे सखी भगवान् / ततो गते द्वे अपि तन्मूलं, दृष्टश्च ताभ्यां तस्य महाविजयरूपापगपक्तिभिर्विराजियुग्मस्य तस्यानेकमहापुरुषाकीर्णस्य महाविदेहरूपस्य विपणिमार्गस्य मध्ये वर्तमानः प्रधानजनपरिकरितो गमनं भूतभवद्भविष्यद्भावस्वभावाविर्भावनं कुर्वाणो भगवान् सदागमः / ततः प्रत्यासन्नीभूय प्रणम्य तचरणयुगलमुपविष्टे ते तनिकटे / तदाकृतिदर्शनादेव सबहुमान मुहुर्मुहुर्विलोकनादगृहीतसङ्केतायाः प्रनष्ट इव सन्देहो, वर्द्धितश्चित्तानन्दः, समुत्पन्नो विश्रम्भो, मताऽऽत्मनः कृतार्थता तदर्शनेनेति / ततः प्रज्ञाविशालां प्रत्यभिहितमनया / अपि चधन्याऽसि त्वं महाभागे ! सुन्दरं तव जीवितम् / यस्याः परिचयोऽनेन, पुरुषेण महात्मना // 1 // अहं तु मन्दभाग्याऽऽस, वञ्चिताऽऽसं पुरा यया / न दृष्टोऽयं महाभागः, पुरुषः पूतकल्मषः // 2 // नाधन्याः प्राप्नुवन्तीमं, भगवन्तं सदागमम् / निर्लक्षणनरो नैव, चिन्तामणिमवामुते // 3 // संजाता पूतपापाऽहमधुना मृगलोचने!। तव प्रसादाद् दृष्ट्वेमं महाभागं सदागमम् // 4 // अगृहीतस- त्वया कमलपत्राक्षि!, येऽस्य संवर्णिता गुणाः। ते तथैव मया सर्वे, दर्शनादेव निश्चिताः॥५॥ . छकोतया नाहं विशेषतोऽद्यापि, वेम्यस्य गुणगौरवम् / नास्त्यन्यः पुरुषोऽनेन, तुल्य एतत्तु लक्षये // 6 // बोधोदयः आसीन्मे मन्दभाग्यायाः पुरेमं प्रति संशयः / गुणेषु दर्शनादेव, साम्प्रतं प्रलयं गतः // 7 // निगूढचरिताऽसि त्वं, सत्यं सद्भाववर्जिता / यया न दर्शितः पूर्व, ममैष पुरुषोत्तमः // 8 // तत्साम्प्रतं मयाऽप्यस्य, भवत्या सह सुन्दरि!। दिने दिने समागत्य, कर्तव्या पर्युपासना // 9 // गुणाः स्वरूपमाचारश्चित्ताराधनमुच्चकैः / त्वयाऽस्य सर्व चार्बङ्गि!, ज्ञातं कालेन भूयसा // 10 // अतो ममापि तत्सर्वे, निवेद्यं वल्गुभाषिणि१६ ! / येनाहमेनमाराध्य, भवामि तव सन्निभा // 11 // ततः प्रज्ञाविशालाऽऽह, चारु चारूदितं प्रिये ! यद्येवं कुरुषे हन्त, सफलो मे परिश्रमः // 12 // अहो विशेषविज्ञानमहो वचनकौशलम् / अहो कृतज्ञता गुर्वी, तवेयं चारुलोचने ! // 13 // सङ्केताभावतो भद्रे !, न जानिषे सदागमम् / तथापि परमार्थेन, योग्यता तव विद्यते // 14 // एवं च कुर्वती नित्यं, मया सार्द्ध विचारणम् / अज्ञातपरमार्थाऽपि, ज्ञाततत्त्वा भविष्यसि // 15 // ततः संजाततोषे ते, नमस्कृत्य सदागमम् / प्रियसख्यौ गते तावत्स्वस्थानं तत्र वासरे // 16 // एवं दिने दिने सख्योः, कुर्वत्योः सेवनां तयोः।सदागमस्य गच्छन्ति, दिनानि किल लीलया॥१७॥ प्रज्ञाविशा अथान्यदा विशालाक्षी, प्रोक्ता सा तेन धीमता / प्रज्ञाविशाला सानन्दं, पुरुषेण महात्मना // 18 // लाद्वारा भ- एष सर्वगुणाधारो, भवत्या स्नेहनिर्भरः। बालकालात्समारभ्य, कर्तव्यो राजदारकः // 19 // व्यपुरुषान- गत्वा राजकुलं भद्रे !, विधाय दृढसङ्गतम्१७ / आवयं जननीचित्तं, धात्री भव कथञ्चन // 20 // यन त्वयि संजातविश्रम्भो, येनायं राजदारकः। सुखं विवर्द्धमानोऽपि, प्रयाति मम वश्यताम् // 21 // ततो निक्षिप्य निःशेषमात्मीयं ज्ञानकौशलम् / सुपात्रेऽत्र भविष्यामि, कृतकृत्योऽहमञ्जसा // 22 // ततो यदादिशत्यार्य !, इत्युक्त्वा नतमस्तका / प्रज्ञाविशाला तद्वाक्यमनुतस्थौ कृतादरा // 23 // अथासौ भव्यपुरुषस्तां धात्रीं प्राप्य सुन्दराम् / ललमानः सुखेनाऽऽस्ते, देववद्दिवि लीलया // 24 // 16 वल्गु-सुन्दरम्. (वस्तुभाषिणि! प्र०) 17 ०संवृतम् प्र०