________________ क्रमात्संवर्द्धमानोऽसौ, कल्पपादपसंनिभः / संजातः सर्वलोकानां, लोचनानन्ददायकः // 25 // ये ते सदागमेनोच्चै विनो वर्णिता गुणाः। आविर्भूताः समस्तास्ते, कौमारे तस्य तिष्ठतः // 26 // ततः परिचयं कर्तु, तया प्रज्ञाविशालया। नीतः सदागमाभ्यणे, सोऽन्यदा राजदारकः // 27 // स च तं वीक्ष्य पुण्यात्मा, महाभागं सदागमम् / भाविभद्रतया धन्यः, परं हर्षमुपागतः // 28 // ततः प्रणम्य सद्भक्त्या, निषण्णोऽसौ तदन्तिके / आकर्णितं मनोहारि, तद्वाक्यममृतोपमम् // 29 // आवजितो गुणैस्तस्य, शशाङ्ककरनिर्मलैः / स भव्यपुरुषश्चित्ते, ततश्चेदमचिन्तयत् // 30 // अस्थाहो वाक्यमाधुर्यमहो रूपमहो गुणाः / अहो मे धन्यता येन, नरोऽयमवलोकितः // 31 // धन्येयं नगरी यस्यां, वसत्येष सदागमः / संजातः पूतपापोऽहं, दर्शनादस्य धीमतः // 32 // नूनमेष भवद्भूतभाविभावविभावनम् / भावतो भगवानुच्चैः, करोत्येष सदागमः // 33 // तदेष सदुपाध्यायो, यदि संपद्यते मम / ततोऽहमस्य नेदिष्ठो, गृह्णामि सकलाः कलाः // 34 // ततः प्रज्ञाविशालायास्तेनाकूतं निवेदितम् / जनीजनकयोर्गत्वा, तयाऽपि कथितं वचः॥३५॥ प्रादुर्भूतस्तयोस्तोषः, प्रविधाय महोत्सवम् / ततः समर्पितस्ताभ्यां, सोऽन्यदा शुभवासरे // 36 // कथम् ?-कृतकौतुकसत्कारः, परिपूज्य सदागमम् / स भव्यपुरुषस्तस्य, शिष्यत्वेन निवेदितः॥३७॥ सिताम्बरधरो धीरः सितभूषणभूषितः / सितपुष्पभरापूर्णः, सितचन्दनचर्चितः // 38 // ततो महाप्रमोदेन, विनयेन विनेयताम् / प्रपन्नस्तस्य पुण्यात्मा, कलाग्रहणकाम्यया // 39 // ततो दिने दिने याति, स पार्थ तस्य धीमतः / सदागमस्य जिज्ञासुः, सार्द्ध प्रज्ञाविशालया // 40 // अन्यदा हट्टमार्गेऽसौ, लीलयाऽऽस्ते सदागमः / स भव्यपुरुषाऽभ्यर्णे, युक्तः प्रज्ञाविशालया // 41 // स भूरिनरसङ्घातपरिवारितविग्रहः। अशेषभावसद्भावं, वदन्नास्ते सदागमः // 42 // अथागृहीतसंकेता, सख्याः पार्थे समागता / नत्वा सदागर्म साऽपि, निषण्णा शुद्धभूतले // 43 // पृष्टा प्रियसखीवार्ता, मानितो राजदारकः / स्थिता सदागममुखं, पश्यन्ती स्तिमितेक्षणा // 44 // संसारिजी- इतश्चैककालमेवैकस्यां दिशि समुल्लसितो वाक्कलकलः / श्रूयते विरसविषमडिण्डिमध्वनिः, समाकर्ण्यते घागमः दुर्दान्तलोककृतोऽट्टहासः, ततः पातिता तदभिमुखा समस्तपर्षदा दृष्टिः, यावत् विलिप्तसमस्तगात्रो भस्म ना चर्चितो गैरिकहस्तकैःखचितस्तृणमपीपुण्ड्रकैः विनाटितो ललमानया कणवीरमुण्डमालया, विडम्बितो वक्षःस्थले घूर्णमानया शरावमालया, धारितातपत्रो जरत्पिठकखण्डेन बद्धलोप्तो गलैकदेशे, आरोपितो रासभे, वेष्टितः समन्ताद्राजपुरुषैः, निन्धमानो लोकेन प्रकम्पमानशरीरः तरलतरमितश्चेतश्चातिकातरतया भयोद्भ्रान्तहृदयो दशापि दिशो निरीक्षमाणो नातिदूरादेव दृष्टः संसारिजीवनामा तस्करः / तं च दृष्ट्वा संजाता प्रज्ञाविशालायाः करुणा / चिन्तितमनया 'यदि परमस्य वराकस्यामुष्मात् सदागमात्सकाशात् शरणं नान्यस्मात्कुतश्चित् / ततो गता तदभिमुखं, दर्शितोऽस्मै यत्नेन सदागमः / अभिहितं च-भद्रामं भगवन्तं शरणं प्रतिपद्यस्वेति / स च सदागममुपलभ्य सहसा संजाताश्च किञ्चिच्चिन्तयन्ननाख्येयमवस्थान्तरं वेदयमानः पश्यतामेव लोकानां निमीलिताक्षः पतितो धरणीतले / स्थितः कियन्तमपि कालं निश्चलः, किमेतदिति विस्मिता नागरिकाः, लब्धा कथञ्चिच्चेतना / ततः समुत्थाय सदागममुद्दिश्यासौ त्रायध्वं नाथास्त्रायध्वमिति महता शब्देन पूत्कृतवान् / ततो मा भैषीरभयमभयं तवेत्याश्वासितोऽसौ सदागमेन / ततस्तदाकर्ण्य प्रपन्नोऽयं सदागमस्य शरणं अङ्गीकृतश्चानेन, अतो न गोचरोऽधुना राजशासनस्येति विचिन्त्य विदितसदागममाहात्म्याः सभयाः प्रत्यकूपदैरपसृताः