________________ 74 संसारिजीवात्तन्तः कम्पमानास्ते राजपुरुषाः, स्थिता दूरदेशे / ततो विश्रब्धीभूतो मनाक् संसारिजीवः, पृष्ठोऽगृहीत सङ्केतया-भद्र ! कतमेन व्यतिकरण गृहीतस्त्वमेभिः कृतान्तसदृशै राजपुरुषैरिति ? सोऽवोचद्अलमनेन व्यतिकरण, अनाख्येयः खल्वेष व्यतिकरः / यदि वा जानन्त्येवामुं व्यतिकरं भगवन्त. सदागमनाथाः, किमाख्यातेन ? सदागमेनोक्तम्-भद्र ! महत्कुतूहलमस्याः, अतस्तदपनोदार्थ कथयतु भवान्, को दोषः ? संसारिजीवेनोक्तं-यदाज्ञापयन्ति नाथाः ! केवलं जनसमक्षमात्मविडम्बनां कथयितुं न पारयामि, ततो विविक्तमादिशन्तु नाथा इति / ततः सदागमेन विलोकिता परिषत् स्थिता प्रज्ञाविशालाऽप्युत्तिष्ठन्ती, गत्वा दृरदेशे त्वमप्याकर्णयस्वेति भणित्वा धारिता सदागमेन, तस्याश्च निकटवर्ती सदागमवचनेनैव भव्यपुरुषोऽपि स्थित एव, ततस्तेषां चतुर्णामपि पुरतः केवलमगृहीतसङ्केतामविश्य प्रजल्पितोऽसौ संसारिजीव:अस्तीह लोके आकालप्रतिधमनन्तजनाकलमसंव्यवहारं नगरम / तत्र सर्वस्मिन्नेव नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः प्रतिवसन्ति / तस्मिंश्चास्यैव कर्मपरिणामस्य महानरेन्द्रस्य संबन्धिनावत्यन्ताबोधतीव्रमोहोदयनामानौसकलकालस्थायिनौ बलाधिकृतमहत्तमौ प्रतिवसतः। ताभ्यांचात्यन्ताबोधतीव्रमोहोदयाभ्यां तत्र नगरे यावन्तो लोकास्ते सर्वेऽपि कर्मपरिणाममहाराजादेशेनैव मुप्ता इव अस्पष्टचैतन्यतया, मत्ता इव कार्याकार्यविचारशून्यतया, मूर्छिता इव परस्परं लोलीभूततया, मृता इव लक्ष्यमाणविशिष्टचेष्टाविकलतया निगोदाभिधानेष्वपवरकेषु निक्षिप्य संपिण्डिताः सकलकालं धार्यन्ते / अत एव च ते लोका गाढसम्मूढतया न किश्चिच्चेतयन्ति, न भाषन्ते, न विशिष्टं चेष्टन्ते, नापि ते छिद्यन्ते, न दह्यन्ते, न प्लाव्यन्ते, न कुट्टयन्ते न प्रतिघातमापद्यन्ते, न व्यक्तां वेदनामनुभवन्ति, नाप्यन्यं कश्चन लोकव्यवहारं कुर्वन्ति / इदमेव च कारणमुररीकृत्य तनगरमसंव्यवहारमिति नाम्ना गीयते / तत्र नगरे संसारिजीवनामाहं वास्तव्यः कुटुम्बिकोऽभूवम् / गतश्च तत्र वसतो ममानन्तः कालः / _ अन्यदा दत्ताऽऽस्थाने तीव्रमोहोदयमहत्तमे तन्निकटवर्तिनि चात्यन्ताबोधबलाधिकृते प्रविष्टा समुद्रवीचिरिव मौक्तिकनिकरवाहिनी, पावट्काललक्ष्मीरिव समुन्नतपयोधरा, मलयमेखलेव चन्दनगन्धधारिणी, वसन्तश्रीवि रुचिरपत्रतिलकाभरणा तत्परिणतिर्नाम प्रतीहारी / तया चावनितलन्यस्तजानुहस्तमस्तकया विधाय प्रणामं विरचितकरपुटमुकुलया. विज्ञापितं--देव ! एष सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धी तन्नियोगो नाम दुतो देवदर्शनमभिलषन् प्रतीहारभूमौ तिष्ठति, तदेवमवस्थिते देवः प्रमाणमिति / ततो निरीक्षितं तीव्रमोहोदयेन ससंभ्रममत्यन्ताबोधवदनम् / स प्राह-शीघ्रं प्रवेशयतु तं भवती, ततो 'यदाज्ञापयति देव' इत्यभिधाय प्रवेशितः प्रतिहार्या तषियोगः / तेनापि सविनयमुपसृत्य प्रणतो महत्तमो बलाधिकृतश्च, अभिनन्दितस्ताभ्यां, दापितमासनं, उपविष्टोऽसौ कृतोचिता प्रतिपत्तिः / ततो विमुच्यासनं, बवा करमुकुलं, कृत्वा ललाटतटे तीव्रमोहोदयेनोक्तम्-अपि कुशलं देवपादानां महादेव्याः शेषपरिजनस्य च ? तन्नियोगेनोक्तम-सु कुशलं, तीव्रमोहोदयेनोक्तम-अनग्रहोऽयमस्माकं यदत्र भवतः प्रेषणेनानस्मता वयं देवपादरित्यतः कथय तावदागमनप्रयोजनमिति / तन्नियोगेनोक्तम्-कोऽन्यो भवन्तं विहाय देवपादानामनुग्रहाईः ? आगमनप्रयोजनं पुनरिदम्-अस्ति तावद्विदितैव भवतां विशेषेण माननीया, प्रष्टच्या सर्वप्रयोजनेषु, अलङ्घनीयवाक्या, अचिन्त्यमाहात्म्या च भगवती लोकस्थिति म देवपादानां महसमभगिनी। अव्यवहारा निगमः तन्नियोगस्यागमनप्र