________________ तस्याश्च तुष्टै देवपादैः सकलकालमेषोऽधिकारो वितीर्णः / यथाऽस्ति तावदेषोऽस्माकं सर्वदा परिपन्थी कथञ्चिदुन्मूलयितुमशक्यः सदागमः परमशत्रुः / ततोऽयमस्मद्धलमभिभूय कचिदन्तराऽन्तरा लब्धप्रसरतयाऽस्मदीयमुक्तेनिस्सारयति कांश्चिल्लोकान् , स्थापयति चास्माकमगम्यायां निवृतौ नगर्याम् / एवं च स्थिते विरलीभविष्यत्येष कालेन लोकः, ततः प्रकटीकरिष्यत्यस्माकमयशस्तन सुन्दरमेतत् / अतो भगवति लोकस्थिते ! त्वयेदं विधेयम्-अस्ति ममाविचलितरूपमेतदेव प्रयोजनमपेक्ष्य संरक्षणीयमसंव्यवहारं नाम नगरम् / ततो यावन्तः सदागमेन मोचिताः सन्तो मदीयमुक्तेर्निर्गत्य निर्वृतिनगी गच्छन्ति लोकाः तावन्त एव भगवत्या तस्मादसंव्यवहारनगरादानीय मदीयशेषस्थानेषु प्रचारणीयाः / ततः प्रचुरलोकतया समस्तस्थानानां सदागममोचितानां न कश्चिद्वार्तामपि प्रश्नयिष्यति / यतो न भवत्यस्माकं छायाम्लानिरिति / ततो महाप्रसाद इति कृत्वा प्रतिपन्नः सोऽधिकारो लोकस्थित्या, अहं च यद्यपि देवपादोपजीवी तथापि विशेषतो लोकस्थितेः प्रतिबद्धः, अत एव तद्द्वारेण तनियोग इति प्रसिद्धोऽहं लोके, मोचिताश्च कियन्तोऽपि साम्प्रतं सदागमेन लोकाः, ततोऽहं भगवत्या लोकस्थित्या युष्मन्मूलं तावतां लोकानामानयनायेह प्रहितः' इति / एतदाकर्ण्य भवन्तः प्रमाणं, ततो यदाज्ञापयति भगवतीति प्रतिपनं तच्छासनं महत्तमेन बलाधिकृतेन च / __ ततोऽपि महत्तमेनोक्तम्-भद्र ! तन्नियोग ! तावदुत्तिष्ठ ! दर्शयामो भद्रस्यासंव्यवहारनगरलोकप्रमाणं येन गतः सन् निवेदयसि त्वं तदेवपादेभ्यः कालान्तरेऽपि येन न भवति येषां लोकविरलीभवनचिन्ता / तन्नियोगेनोक्तम्-यदाज्ञापयत्यायः / ततः समुत्थितास्त्रयोऽपि नगरं निरीक्षितुं, दर्शिताः समुच्छ्रितकरण पर्यटता तीव्रमोहोदयेनासंख्येया गोलकनामानः प्रासादास्तनियोगस्य / तन्मध्यवर्तिनश्वासंख्येया एव दर्शिताः निगोदनामानोऽपवरकाः, ते च विद्वद्भिः साधारणशरीराणीत्यभिधीयन्ते, तदन्तर्भूताश्च दर्शिता अनन्ता लोकाः / ततो विस्मितस्तन्नियोगः, उक्तो महत्तमेन-भद्र ! दृष्टं नगरप्रमाणं ? स प्राह-सुष्टु दृष्टं, ततः सहस्ततालमट्टहासेन विहस्य तीव्रमोहोदयेनोक्तम्-पश्यत विमूढतां सदागमस्य / स हि किल सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धिनं लोकं निर्वाहयितुमभिलपति, न जानीते वराकस्तत्प्रमाणं, तथाहि-- अत्र नगरे तावदसंख्येयाः प्रासादाः, तेषु प्रत्येमसंख्येया एवापवरकाः, तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिवसन्ति, अनादिरूढश्चास्य सदागमस्यायं लोकनिर्वाहणाग्रहरूपो ग्रहः तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभागमात्र निर्वाहितं, ततः केयं देवपादानां लोकविरलीभवनचिन्ता ? तन्नियोगेनोक्तम्-सत्यमेतद्, अस्त्येव चायं देवस्याप्यवष्टम्भः, विशेषतः पुनयुष्मद्वचनमेतदहं कथयिष्यामि / अन्यच्चोक्तं भगवत्या लोकस्थित्या यथा-न भवता कालक्षेपः कार्यः तत्संपाद्यतां शीघ्र तदादेश इति / ततः स्थितावुत्सारके महत्तमबलाधिकृतौ / महत्तमेनोक्तम्-केऽत्र प्रस्थापनायोग्या इति ? अत्यन्ताबोधः प्राह--आर्य ! किमत्र बहुनाऽऽलोचितेन / ज्ञाप्यतामेश व्यतिकरो नगरलोकानां, दीयतां पटहकः, क्रियतां घोषणा यथा-'देवकर्मपरिणामादेशेन कियद्भिरपि लोकैरितः स्थानात्तदीयशेषस्थानेषु गन्तव्यमतो येषामस्ति भवतां तत्र गमनोत्साहः ते स्वयमेव प्रवर्तन्तामिति / ततोऽनुकूलतया शेषस्थानानामुत्सङ्कलिता वयमिति च मत्वा भूयांस लोकाः स्वयमेव प्रवर्तिष्यन्ते, ततो विशेषतो नेयलोकसंख्यां दृष्ट्वा पृष्ट्वा च तन्नियोग तेषां मध्यायेऽस्मभ्यं रोचिष्यन्ते तानेव तावत्संख्यान् प्रहिष्याम इति /