________________ महत्तमेनोक्तं भद्र ! स्वयमपि परिहितस्य भक्तिं न जानीषे त्वं यतोऽमीभिलॊकैर्न कदाचिदृष्टं स्थानान्तरमतो न जानन्ति तत्स्वरूपमपि, किम्पुनस्तस्यानुकूलताम् ? अनादिप्रवाहेण चात्रैव वसन्तो रतिमुपगताः खल्वेते, तथाऽनादिसम्वन्धेनैव रूढस्नेहाः परस्परं नेच्छन्ति वियोगं, तथाहि-पश्यतु भद्रो येऽत्र लोका एकैकस्मिन्नपवरके वर्तन्ते तेऽतिस्निग्धतयाऽऽत्मनो गाढं सम्बन्धमुपदर्शयन्तः समकमुच्छ्वसन्ति, समकं निःश्वसन्ति, समकमाहारयन्ति, समकं निर्हारयन्ति / एकस्मिन्नियमाणे सर्वे नियन्ते, एकस्मिन् जीवति सर्वेऽपि जीवन्ति / तत्कथमेते स्थानान्तरगुणज्ञानरहिता एवंविधप्रेमबद्धात्मानश्च स्वयमेव प्रवर्तिष्यन्ते ? तस्मादपरः कश्चित्प्रस्थानोचितलोकपरिज्ञानोपायश्चिन्त्यतां भवतेति / ततः पर्याकुलीभूतो बलाधिकृतः किमत्र विधेयमिति / . भवितव्यता- इतश्चास्ति भवितव्यता नाम मम भार्या / सा च शाटिकाबद्धः सुभटो वर्त्तते, यतोऽहं नामया महिमा स मात्रेणैव तस्या भर्तेति प्रसिद्धः, परमार्थतः पुनः सैव भगवती मदीयगृहस्य शेषलोकगृहाणां च स म्बन्धिनी समस्तामपि कर्त्तव्यतां तन्त्रयति / यतः सा अचिन्त्यमाहात्म्यतया स्वयमभिलषितमर्थ घटयन्ती नापेक्षतेऽन्यसम्बन्धिनं पुरुषकारं सहायतया, न विचारयति पुरुषानुकूलप्रतिकूलभावं, न गणयत्यवसरं निरूपयत्यापद्गतं, न निवार्यते सुरमुरुणाऽपि बुद्धिविभवेन न, प्रतिस्खल्यते विबुधपतिनाऽपि पराक्रमेण, नोपलभ्यते योगिभिरपि तस्याः प्रतिविधानोपायः। अत्यन्तमसम्भावनीयमप्यर्थ सा भगवती स्वकरतलवर्तिनमिव लीलया संपादयति, लक्षयति च प्रत्येकं समस्तलोकानां यस्य यदा यत्र यथा यावधच्च प्रयोजनं कर्त्तव्यं ततस्तस्य तदा तत्र तथैव तावत्तदेव प्रयोजनं रचयन्ती न त्रिभुवनेनापि निवारयितुं पार्यते / किं च यदि शक्रचक्रवर्त्यादीनामपि कथ्यते यथा--भद्रिका भवतामुपरि भवितव्यतेति ततस्तेऽपि तुष्यन्ति हृदये , दर्शयन्ति मुखप्रसाद, विस्फारयन्ति विलोचने, ददति कथकाय पारितोषिकं, कुर्वन्त्यात्मनि बहुमानं, कारयन्ति महोत्सवं, वादयन्त्यानन्ददुन्दुभिं, चिन्तयन्त्यात्मनः कृतकृत्यतां, मन्यन्ते सफलं जन्मेति, किं पुनः शेषलोका इति ? अथ तेषामपि शक्रचक्रवर्त्यादीनां कथ्यते यथा--न भद्रिका भवतामुपरि भवितव्यतेति, ततस्ते कम्पन्ते भयातिरेकेण, प्रतिपद्यन्ते दीनतां, कुर्वन्ति क्षणेन कृष्णं मुखं, निमीलयन्ति वीक्षणे, रुष्यन्ति कथकाय, समध्यास्यन्ते चिन्तया, गृह्यन्ते रणरणकेन, परित्यजन्ति शोकातिरेकेणेतिकर्तव्यतां, आलोचयन्ति तत्प्रासादनार्थमनेकोपायान्, किं बहुना ? न लभन्ते तस्यामतुष्टायां मनागपि चित्तनिवृतिं कथमेषाऽपि पुनः प्रगुणीभविष्यतीत्युद्वेगेन, किं पुनः सामान्यजना इति ? सा पुनर्भगवती यदात्मने रोचते तदेव विधत्ते न परं विज्ञापयन्तं, विलपन्त, प्रतिकुर्वन्तं वाऽपेक्षते / अहमपि तद्भयोद्घान्तचित्तो यदेव सा किश्चित्कुरुते यथेटचेष्टया तदेव बहु मन्यमानस्तस्याः पतिरपि कर्माकर इव जय देवि ! जय देवीति ब्रुवाणस्तिष्ठामि / अपि च-सा सर्वत्र कृतोद्योगा, सा ज्ञात वनोचिता / सा जागत्ति प्रसुप्तेषु, सा सर्वस्य निरूपिका॥१॥ सा केवलं जगत्यत्र, विचरन्ती निराकुला / न कुतश्चिद्विभेत्युच्चैर्मत्तावद्गन्धहस्तिनी // 2 // सा कर्मपरिणामेन, महाराजेन पूजिता / यतोऽनुवर्त्तयत्येव, तामेषोऽपि प्रयोजने // 3 // तथाऽन्येऽपि महात्मानः, कुर्वन्ति स्वं प्रयोजनम् / यान्तोऽनुकूलतां तस्या, यत एतदुदाहृतम् // 4 // बुद्धिरुत्पद्यते ताग, व्यवसायाच तादृशाः। सहायास्तादृशाश्चैव यादृशी भवितव्यता // 5 // तस्याश्च मदीयगृहिण्या भवतिव्यतायाः सम्बन्धिनमेनं गुणसन्दोहं जानात्येव सोऽत्यन्ताबोधी बलाधिकृतः / ततस्तस्य तदा पर्यालोचयतश्चेतसि परिस्फुरितम्-अये ! किमहमेवं सत्यप्युपाये