________________ चिन्तयाऽऽत्मानमाकुलयामि ? यतो जानात्येव सा संसारिजीवपनी भवितव्यता येऽत्र प्रस्थापनोचिता लोकास्तेषां स्वरूपमिति / अतस्तामेवाहूय पृच्छामि, ततः कथितस्तीव्रमोहोदयाय तेन स्वाभिप्रायः, सुन्दरमेतदिति बहुमतं तस्यापि तस्या आकारणम् / ततः प्रहितः पुरुषः, समाहूता भवितव्यता, समागता वेगेन, प्रवेशिता प्रतिहार्या, महाप्रभावेयं सर्वापि स्त्री किल देवतेति विचिन्त्य कृतं तस्याः पादपतनं वाचिकं महत्तमवलाधिकृताभ्याम् / अभिनन्दितौ तौ तयाऽऽशीर्वादेन, दापितमासनं, उपविष्टा भवितव्यता / ततो बलाधिकृताभिमुखं महत्तमेन चालिता भूलता / ततस्तेन कथयितुमारब्धस्तस्यै तन्नियोगव्यतिकरः, ततो हसितं तया / स प्राह-भद्रे ! किमेतद् ? भवितव्यताऽऽह-न किञ्चित् , बलाधिकृतेनोक्तम्-तत्किमकाण्डे हसितम् ? भवितव्यताऽऽह--अत एव, यतो न किञ्चिदिदम् / बलाधिकृतेनोक्तम्-कथम् ? भवितव्यताऽऽह--सत्यमत्यन्ताबोधोऽसि, यस्त्वमेनमपि व्यतिकरं मह्यं कथयसि / कृतोद्योगाऽहमेवंविधेषु व्यतिकरेषु, लक्षयाम्यनन्तकालभाविनोऽपि सर्वव्यतिकरानहं, किं पुनः साम्प्रतिकान् ? अतो निष्प्रयोजनत्वान्न किश्चिदेतत्त्वदीयकथनं ममेति / अत्यन्ताबोधः प्राहसत्यमिदम् , विस्मृतं मे तावकं माहात्म्य, सोढव्योऽयमेको ममापराधो भवत्या / अन्यच्च प्रस्थापय त्वमेव येऽत्र प्रस्थापनोचिता लोकाः, किं नो व्यापारेण ? भवितव्यतयोक्तम्-एकस्तावदेष एव मदीयो भर्ता प्रस्थापनयोग्यः, तथाऽन्ये च ये तज्जातीयाः / बलाधिकृतेनोक्तम्--त्वमेव जानीये, तत्किमत्रोक्तेन ? ततो निर्गता भवितव्यता, आगता मम समीपे, कथितो व्यतिकरः / मयोक्तम्यद्देवी जानीते / ततः समुच्चलितोऽहमन्ये च मज्जातीयास्तन्नियोगाभिप्रेतसङ्ख्यानुसारेण, उक्तौ च भवितव्यतया महत्तमबलाधिकृतौ यदुत मया युवाभ्यां चामीभिः सह यातव्यं, यतो भतृदेवता नारीति न मोक्तव्यो मया संसारिजीवो, यतश्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम . नगरं, तत्रामीभिर्लोकः प्रथमं गन्तव्यं, अतो युज्यते युवाभ्यां सहैवामीषां तत्रासितुं, नान्यथा / ततो यद्भवती जानीत इत्यभिधाय प्रतिपन्नं तद्वचनं महत्तमबलाधिकृताभ्याम् / प्रवृत्ताः सर्वेऽपि समागतास्तदेकाक्षनिवासं नगरम् / तत्र च नगरे महान्तः पञ्च पाटका विद्यन्ते, ततोऽहमेकं पाटकं कराग्रेण दर्शयता तीव्रमोहोदयेनाभिहितः भद्र संसारिजीव ! तिष्ठ त्वमत्र पाटके, यतोऽयं पाटकोऽ संव्यवहारनगरेण बहतरं तुल्यो वर्तते, ततो भविष्यत्यत्र तिष्ठतो धृतिरिति, तथाहि-यथा तत्रासंव्यवहारनगरे गोलकाभिधानानां प्रासादानां मध्यवर्तिनोऽसंख्या ये निगोदाभिधाना अपवरकास्तेषु यथा लोकाः प्रत्येकमनन्ताः संपिण्डिताः स्नेहानुबन्धेन प्रतिवसन्ति अत्रापि पाटके बहुतमा लोकास्तथैव प्रतिवसन्ति, केवलमसंव्यवहारनगरसम्बन्धिनो न कचिल्लोकव्यवहारेऽवतरन्तीति असांव्यावहारिका उच्यन्ते / ते हि यदि परं यूयमिव भगवत्या लोकस्थितेरादेशेन सकृदेवान्यस्थानेषु गच्छन्ति, नान्यथा / एते पुनरस्य पाटकस्य संबन्धिनो लोकाः कुर्वन्ति लोकव्यवहारं समाचरन्ति शेषस्थानेषु गमागमं तेन सांव्यावहारिका इत्यभिधीयन्ते / तथा तेषामसंव्यवहारनगरसंबन्धिनामनादिवनस्पतय इति सर्वेषामापि सामान्याभिधानं, एतत्पाटकसम्बन्धिनां तु वनस्पतय इत्येतावान् विशेषः / तथा प्रत्येकचारिणोऽपि प्रासादापवरकन्यायरहिता मुत्कलचारेणात्र विद्यन्ते तेऽसंख्येया लोकाः, ततस्तिष्ठ त्वमत्र, पूर्वपरिचितनगरसमान एवायं पाटकस्तवेति / ततो मयोक्तम्यदाज्ञापयति देवः, ततः स्थापितोऽहमेकस्मिन्नपवरके, शेषलोकास्तु केनचिन्मदीयविधानेनैव स्थापितास्तत्रैव पाटके, केचिन्मुत्कलचारेण, केचित्पुनीताः पाटकान्तरेष्विति / ततोऽहं तत्र ज्याप्तिः