________________ प्रत्येकताबाप्तिः गुटिकाप्रयो गेण वनस्प त्या विविध स्वरूपा वाप्तिः साधारणशरीरनाम्नि भद्रे ! अपवरके पूर्वोक्तस्थित्यैव सुप्त इव, मत्त इव, मूर्छित इव, मृत इवानन्तलोकैः संपिण्डितैस्तैः समकमुच्छ्वसन्, समकं निःश्वसन् , समकमाहारयन्, समकं निर्हारयन् स्थितोऽनन्तकालमिति / ___ अन्यदा कर्मपरिणाममहाराजादेशेनैवानुमतो महत्तमबलाधिकृताभ्यां निःसारितस्ततोऽपवरकन्यायाद् भवितव्यतया, धारितस्तत्रैव पाटके पुनरसंख्यकालं प्रत्येकचारितयेति / इतश्च पूर्वमेव कर्मपरिणाममहाराजेन परिपृच्छय लोकस्थिति समालोच्य सह कालपरिणत्या ज्ञापयित्वा नियतियदृच्छादीनां अनुमते भवितव्यतायाः अपेक्ष्य विचित्राकारं लोकस्वभावं आत्मीयसामर्थ्यप्रभवैः परमाणुभिर्निष्पादिताः सर्वार्थकारिण्य एकभववेद्यसंज्ञाः प्रधानगुटिकाः समर्पिता भवितव्यतायाः / सा चाभिहिता तेन-यथा भद्रे ! समस्तलोकव्यापारकरणोद्यता त्वं श्रान्ताऽसि समस्तलोकानां क्षणे क्षणे नानाविधसुखदुःखादिकार्याणि संपादयन्ती, ततो गृहाणामूर्गुटिकाः / ततस्त्वया तासामेकैकस्य सत्त्वस्य जीर्णायां जीर्णायामेकैकस्यां गुटिकायामन्या दातव्या, ततः संपादयन्त्येताः स्वयमेव विविधमप्येका जन्मवासके वसत्सु प्रत्येकं सत्त्वेषु तवे; सर्व प्रयोजनमिति भविष्यति ते निराकुलता / ततः प्रतिपन्नं भवितव्यतया तद्राजशासनं विधत्ते च सकलकालं समस्तसत्त्वानां तथैव सा तं गुटिकाप्रयोगम् / ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवं तदा मम जीर्णायां जीर्णायामपरां सा गुटिकां दत्तवती / केवलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती / तत्र पुनरेकाक्षनिवासनगरे समागता तीव्रमोहोदयास्यन्ताबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्म / यतः कृतोऽहं तत्र पाटके वर्तमानः कचिदवसरे सूक्ष्मरूपः, तत्रापि कचित्पर्याप्तकरूपः तथा कचिदवसरे विहितोऽहं बादराकारः, तत्रापि कचित्पर्याप्तकरूपः कचिदपर्याप्तकरूपः, तथा बादरः सन् कचिदपवरकवी, कचित्प्रत्येकचारी / अत्रापि कचिदङ्कराकारधारकः, कचित्कन्दरूपः कचिन्मूलभाजी, कचित्त्वकचारी, कचित् स्कन्धवत्ती, कचिच्छाखाचरः, कचित्प्रशास्वागतः कचित्प्रवालसंचरिष्णुः, कचित्पत्राकारः, कचित्पुष्प थः कचित्फलात्मकः, कचिद्वीजस्वभावः। तथाकचिन्मलबीजः, कचिदग्रबीजः, क्वचित पर्वबीजः, कचित स्कन्धबीजः, कचिद् बीजरुहः, कचित्सम्मूर्च्छनजः। तथा कचित् वृक्षाकारः, कचिद् गुल्मरूपः, कचिल्लतात्मकः, कचिद्वल्लीस्वभावः, कचिद्धरितात्मक इति / तथारूपेण च वर्तमानं मामुपलभ्यान्यग्रामनगरसम्बन्धिनो लोकाः कम्पमानं भवितव्यतायाः समक्षमेव छिन्दन्ति, भिन्दन्ति, दलन्ति, पिंषन्ति, मोटयन्ति, लुश्चयन्ति, तक्ष्णुवन्ति, दहन्ति, नानाकदर्थनाभिः कदर्थयन्ति / तथा भवितव्यता तत्रोपेक्षां कुरुते / ततोऽतिवाहिते तथाविधदुःखैरनन्तकाले जीर्णायां पर्यवसानकालदत्तायां गुटिकायां दत्ता भवितव्यतया ममान्या गुटिका / तत्प्रभावाद् गतोऽहं द्वितीयपाटके / तत्र पार्थिवसंज्ञया लोकाः प्रतिवसन्ति / ततोऽहमपि तेषां मध्ये संपन्नः पाथिवः, विडम्बितस्तत्र भवितव्यतयाऽपरापरगुटिकादानद्वारेण सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपतया कृष्णनीलश्वेतपीतलोहितवर्णादिरूपतया सिकतोपललवणहरितालमनःशिलाञ्जनशुद्धपृथिव्याधाकारतया चासंख्येयं कालम् / तितिक्षितानि च ता पाटके वसता मया भेदनदलनचूर्णनखण्डनदहनादीनि दुःखानि / ततः पर्यन्तगुटिकाजरणावसाने दत्ता भवितव्यतया ममान्या गुटिका / गतोऽहं तन्माहात्म्येन तृतीये पाटके / तत्र चाप्याभिधानाः कुटुम्बिनः प्रतिवसन्ति, ततो ममापि तत्र गतस्य संपन्नमाप्यरूपं, पृथ्वीत्वावापितः अप्काये गमन